संस्कृत-शब्दकोशः

मणिपूर मणिबीज

मणिबन्ध

वाचस्पत्यम्

मणिबन्ध ||‍ पु० मणिर्बध्यतेऽत्र बन्ध—आधारे घञ् । प्रकोष्ठ- पाण्योर्मध्यस्थे १ करग्रन्थौ तस्य शुभाशुभलक्षणं गरु० पु० ६६ अ० उक्तं यथा “मणिबन्धैर्निगूढैश्च सुश्लिष्ट- शुभसन्धिभिः । नृपा हीनैः करच्छेदसशब्दैर्धनवर्जिताः” २ सैन्धवलवणाकारे पर्वतभेदे च ।


शब्दकल्पद्रुमः

मणिबन्धः || पुं, (मणिर्बध्यते यत्र । अधिकरणे घञ् ।)
प्रकोष्ठपाण्योः सन्धिस्थानम् । इत्य- मरटीकायां भरतः । कब्जा इति भाषा ॥ स च करस्यादिभागः । (यथा, अभिज्ञानशकुन्तले ३ अङ्कः । “मणिबन्धाद्गलितमिदं संक्रान्तोशीरपरिमलं तस्याः ।”)
तत्पर्य्यायः । मणिः २ । इति हेमचन्द्रः ॥ कर- ग्रन्थिः ३ करग्रन्थिकः ४ । इति शब्दरत्ना- बली ॥ तस्य शुभाशुभलक्षणं यथा, —
“मणिबन्धैर्निगूढैश्च सुश्लिष्टशुभसन्धिभिः । नृपा हीनैः करच्छेदैः सशब्दैर्धनवर्ज्जिताः ॥” इति गारुडे ६५ अध्यायः ॥



Correction: