संस्कृत-शब्दकोशः

मण्डूकी मण्डूरवज्र

मण्डूर

वाचस्पत्यम्

मण्डूर ||‍ न० मडि—ऊरच् । लौहमले अमरः ।


शब्दकल्पद्रुमः

मण्डूरं || क्ली पुं, लौहमलम् । ततपर्य्यायः । शिङ्घाणम् २ । इत्यमरः । २ । ९ । ९८ ॥ सिंहानं ३ । सिंहाणं ४ । मण्डते लोहं वेष्टते अग्निदाहे लोहाद्विभजते वा मण्डयति भूष- यति औषधत्वाद्रोगिणमिति वा मण्डूरं कि मडि भूषे मडि ङ विभागे वेष्टे नाम्नीति ऊरः । इति तट्टीकायां भरतः ॥ अस्य गुणः । लौहगुणतुल्यः । शतवर्षोर्द्ध्वं मण्डूरमुत्तमम् । अशीतिवर्षीयं मध्यमम् । षष्टिवर्षीयमधमम् । अतो न्यूनं विषतुल्यम् । यथा, —
“यल्लोहं यद्गुणं प्रोक्तं तत्किट्टञ्चापि तद्गुणम् । शतोर्द्धमुत्तमं किट्टं मध्यञ्चाशीतिवार्षिकम् ॥ अधभं षष्टिवर्षीयं ततो हीनं विषोपमम् ॥” इति रसेन्द्रचिन्तामणिः ॥ (तथा चास्य पर्य्यायान्तरम् । मण्डूरं लोहजं किट्टम् । इति वैद्यकरत्नमालायाम् ॥ अस्य उत्पतिर्गणाश्च यथा, —
“ध्मायमानस्य लोहस्य मलं मण्डूरमुच्यते । लोहसिंहानिका किट्टी सिंहाणञ्च निगद्यते ॥ यल्लोहं यद्गुणं प्रोक्तं तत्किट्टमपि तद्गुणम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ “ये गुणा मारिते मुण्डे ते गुणा मुण्डकिट्टके । तस्मात् सर्व्वत्र मण्डूरं रोगशान्त्यै प्रयोजयेत् ॥” अथास्य मारणविधिर्यथा, —
“दग्ध्राक्षकाष्ठैर्मलमायसन्तु गोमूत्रनिर्व्वापितमष्टवारान् । विचूर्ण्य लीढं मधुनाचिरेण कुम्भाह्वयं पाण्डुगदं निहन्ति ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणा- धिकारे ॥)



Correction: