वाचस्पत्यम्
मतङ्गज || पुंस्त्री० मतङ्गः मेघ इव जायते जन—ड । १ गजे अमरः तस्य मेघाकृतित्वात् तथात्वम् । स्त्रियां ङीष् । ग्रीष्मे गजानामूष्मणा कुष्ठादिरोगो भवति यथोक्तं कामन्द० ||“ऋते त्वम्भो ग्रीष्मकृतात् प्रतापाद्भवन्ति कुष्ठानि मतङ्गजानाम् । स्वस्थक्रियाणामपि कुञ्जरणामूष्मा शरीरेष्वभिजाज्वलीति । आयासयोगेन हि सम्प्रवृद्धः प्रसह्य हन्ति द्विरदान् प्रतापः । सर्वाणि गत्त्वानि खलूष्मकाले बिनाम्बुना यान्ति परामवस्थाम् । अन्धत्व- मुष्णप्रवितप्तकायाः प्रयान्ति सद्यः करिणोऽपिबन्तः ।”
शब्दकल्पद्रुमः
मतङ्गजः || पुं, (मतङ्गः मेघ इव जायते तद्याख्य- मुनेर्जातो वेति । जन + ड ।)
हस्ती । इत्यमरः । २ । ८ । ३४ ॥ (यथा, कामन्दकीये नीतिसारे । १५ । ७ । “ग्रीष्मे प्रभूताम्बुवनेन यायात् निर्वासनार्थं करिणां यथा तु । ऋतेऽम्भसो ग्रीष्मकृतात् प्रतापात् भवन्ति कुष्ठानि मतङ्गजानाम् ॥”)