वाचस्पत्यम्
मत्य || न० मते समीकरणे साधु यत् । कृष्टक्षेत्रस्य समीकरण- साधने १ फलकभेदे (मै) “सप्तास्थितेन मत्येन मतीकरोति” ताण्ड्य० ब्रा० २ । ९ । २ । “यथा लोके सप्ता- स्थितेन सप्तभिरनडुद्भिः सप्तभिस्तौक्ष्णमागैः शङ्कुभिर्वा अधिष्ठितेन मत्येन मत्यन्नाम कृष्णस्य क्षेत्रस्य समीकरणा- दिसाधनं फलकम् । तेन मतीकरोति समीकरणार्थं कर्षकः प्रव्रजति क्षेत्रम्” भा० २ दात्रादिमुष्टौ हेम०
शब्दकल्पद्रुमः
मत्यं || क्ली (मतं ज्ञानं तस्य करणमिति । मत + “मतजनहलात् करणजल्पकर्षेषु ।” ४ । ४ । ९७ । इति यत् । कृष्टस्य क्षेत्रस्य समीकरणादिसाधन- फलकम् । यथा, ताण्ड्यमहाब्राह्मणे । २ । ९ । २ । “भ्रातृव्यवांस्तवीत यथा सप्तास्थितेन मत्येन । मतीकरोत्येवं पाप्मानं भ्रातृव्यं प्ररुजति ॥” “मत्यं वाम कृष्टस्य क्षेत्रस्य समीकरणादि- साधनफलकम् ।” इति तद्भाष्ये सायनः ॥)
दात्रादीनां मुष्टिः । तत्पर्य्यायः । वण्टः २ । इति हेमचन्द्रः । ३ । ५५६ ॥