वाचस्पत्यम्
मत्सर || पु० मद—सरन् । १ अन्यशुभद्वेषे परसम्पत्त्यसहने २ क्रोधे च ३ तद्वति ४ कृपणे च त्रि० अमरः । ५ कीटभेदे मक्षिकायां स्त्री विश्वः । मत्सरश्च “निन्दन्ति मां सदा लोका धिनस्तु मम जीवनम् । इत्यात्मनि भवेद्यस्त धिक्कारः स श्च मत्सरः” किया- योगसारोक्तः । “स्वप्रयोजनप्रतिसन्धानं विना पराभिगत- निवारणेच्छा ।” गौ० वृ० उक्तश्च बोध्यः ।
शब्दकल्पद्रुमः
मत्सरः || त्रि (माद्यतीति । मद् हर्षे + “कृधू- मदिभ्यः कित् ।” उणा० । ३ । ७३ । इति सरन् । स च कित् ।)
असह्यपरसम्पत्तिः । मात्सर्य्ययुक्तः । (यथा, महानिर्व्वाणतन्त्रे । १ । २६ । “न मत्सरा नातिरुष्टा नातिलुब्धा न कामुकाः ।”)
कृपणः । इत्यमरमेदिनीकरौ ॥ आत्मधिक्कार- व्रिशेषः । यथा, —
“निन्दन्ति मां सदा लोका धिगस्तु मम जीव- नम् । इत्यात्मनि भवेद्यस्तु धिक्कारः स च मत्सरः ॥” इति पाद्मे क्रियायोगसागरे १६ अध्यायः ॥
शब्दकल्पद्रुमः
मत्सरः || पुं, (मद्यते इति मद् + “कृधूमदिभ्यः कित् ।” उणा० । ३ । ७३ । इति सरन् । स च कित् । यद्बा । मदा सरतीति अमर- टीका ।)
अन्यशुभद्वेषः । इत्यमरः । ३ । ३ । १७२ ॥ (यथा, कथासरित्सागरे । ४२ । ६५ । “शीर्षान्ताद्भक्षयामास द्बितीयमपि तत्फलम् । निसर्गसिद्धो नारीणां सपत्नीषु हि मत्सरः ॥”)
क्रोधः । इति मेदिनी । रे, १९३ ॥