संस्कृत-शब्दकोशः

मत्स्यनाशन मत्स्यबन्धक

मत्स्यपित्ता

वाचस्पत्यम्

मत्स्यपित्ता ||‍ स्त्री मत्स्यस्य पित्तनिव रसोऽस्त्यस्याः अच् । कटुरोहिण्याम् (कट्की) अमरः ।


शब्दकल्पद्रुमः

मत्स्यपित्ता || स्त्री (कटुरौहिणी । इत्यमरः । २ । ४ । ८६ ॥ (तथा चास्याः षर्य्यायाः । “कट्वी तु कटुका तिक्ता कृष्णभेदा कटुम्भरा । अशोका मत्स्यशकला चक्राङ्गी शकुलादनी ॥ मत्स्यपित्ता काण्डरुहा रोहिणी कटु- रोहिणी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: