संस्कृत-शब्दकोशः

मत्स्याङ्गी मत्स्याशन

मत्स्यादनी

वाचस्पत्यम्

मत्स्यादनी ||‍ स्त्री मत्स्य इवाद्यते आस्वाद्यते अट—कर्मणि ल्युट् । जलपिप्पल्याम् राजनि० ।


शब्दकल्पद्रुमः

मत्स्यादनी || स्त्री (मत्स्यैरद्यते इति मत्स्य + अद + ल्युट् गौरादित्वात् ङीष् ।)
जलपिप्पली । इति राजनिर्घण्टः ॥ (तथा च पर्य्यायः ॥ “जलपिप्पल्यभिहिता शारदी शकलादनी । मत्स्यादनी मत्स्यगन्धा लाङ्गलीत्यपि कीर्त्तिता ॥” मत्स्याक्षी । मछेछी इति लोके ॥ तत्पर्य्यायो यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे । “मत्स्याक्षी वाह्लिकामत्स्य गन्धा मत्साद- नीति च ।”)



Correction: