संस्कृत-शब्दकोशः

मत्स्यी मथ

मत्स्योदरी

वाचस्पत्यम्

मत्स्योदरी ||‍ स्त्री मत्स्यगन्धयुक्तमुदरमस्याः । १ व्यासमातरि मत्स्यगन्धायां २ काशीस्थे तीर्थभेदे च काशी० ६९ अ० “दुर्गाणि तैः कृतानीह सप्त स्वर्गसमानि च । सद्वाराणि सयन्त्राणि कवाटविकटानि च । कोटिकोटिभटा- द्यानि सर्वर्द्धिसहितान्यपि । ततः शैलमहादुर्गं तैः काशीं परितः कृतम् । परिखा च कृतालिन्दा मत्स्योदर्य्या जलाबिला । मत्स्योदरी द्विधा जाता वहिरन्तश्चरा पुनः । तस्य तीर्थं महत् ख्यातं मिलितं गाङ्गवारिणि । यदा संहारमार्गेण गङ्गाम्भः प्रसरे- दिह । तदा मत्स्वोदरीतीर्थं लभ्यते पुण्यगौरवात् । सूर्य्याचन्द्रमसोः पर्व तदा कोटिगुणं शतम् । सर्वपर्वाणि तत्रैव सर्वतीर्थानि तत्र वै । तत्रैव सर्वलिङ्गानि गङ्गा- मत्स्योदरी यतः । मत्स्योदर्य्याञ्च ये स्नाता यत्र कुत्रापि मानवाः । कृतपिण्डप्रदानास्ते न मातुरुदरेशयाः । अविमुक्तमिदं क्षेत्रं मत्स्याकारत्वमाप्नुयात् । परितः स्वर्धुनीवारिसंहारे परितोवृते । मत्स्योदर्य्यां कृत- स्नाना ये नरास्ते नरोत्तमाः । कृत्वापि बहुपापानि नेक्षन्ते भास्करेः पुरीम् । किं स्नात्वा बहुतीर्थेषु किं तखा दुष्करं तपः । यदि मत्स्योदरीस्नाताः कुतो गर्भभयं ततः । यत्र यत्र हि लिङ्गानि नृदेवर्षि- कृतान्यपि । तत्र मत्स्योदरीं प्राप्य सुस्नातो मोक्ष- भाजनम् । सन्ति तीर्थान्यनेकानि भूर्भुवःस्वर्गतान्यपि । न समानि परं तानि कोट्यंशेनापि निश्चितम् । इत्थं तीर्थं कृतं तेन विभो! कैलासवासिना । सणाधिपेन सुमहत् सुमहोदारकर्मणा ।”


शब्दकल्पद्रुमः

मत्स्योदरी || स्त्री (मत्स्यस्य उदरं उत्पत्तिस्थानं यस्याः । मत्स्यगर्भे जातत्वादस्यास्तथात्वम् ।)
सत्यवती सा च व्यासमाता । इति जटाधरः ॥ (यथा देवीभागवते । २ । १ । ३८ । “कालिका वसुना दत्ता तरसा जालजीविने । नाम्ना कालीति विख्याता तथा मत्स्यो- दरीति च ॥”)
(मत्स्या उदरे गर्भे यस्याः ।)
काशीस्थतीर्थ- विशेषः ॥ यथा, —
“कैलासाद्रेः समायाताः सप्तकोटिमिताः प्रभो ! । दुर्गाणि तैः कृतानीह सप्तस्वर्गसमानि च ॥ सद्वाराणि सयन्त्राणि कवाटविकटानि च । कोटिकोटिभटान्यानि सर्व्वर्द्धिसहितान्यपि ॥ ततः शैलं महादुर्गं तैः काशीपरितः कृतम् । परिखा निकृतालिन्दा मत्स्योदर्य्या जलाविला ॥ मत्स्योदरी द्विधा जाता बहिरन्तश्चरा पुनः । तस्य तीर्थं महत् ख्यातं मिलितं गाङ्गवारिणि ॥ यदा संहारमार्गेण गङ्गाम्भः प्रसरेदिह तदा मत्स्योदरीतीर्थं लभ्यते पुण्यगौरवात् ॥ सूर्य्याचन्द्रमसोः पर्व्व तदा कोटिगुणं शतम् । सर्व्वपर्व्वाणि तत्रैव सर्व्वतीर्थानि तत्र वै । तत्रैव सर्व्वलिङ्गानि गङ्गा मत्स्योदरी यतः ॥ मत्स्योदर्य्याञ्च ये स्नाता यत्र कुत्रापि मानवाः । कृतपिण्डप्रदानास्ते न मातुरुदरेशयाः ॥ अविमुक्तमिदं क्षेत्रं मत्स्याकारत्वमाप्नुयात् । परितः स्वर्धुनीवारि संसारे परिवीक्षते ॥ मत्स्योदर्य्यां कृतस्नाना ये नरास्ते नरोत्तमाः । कृत्वापि बहुपापानि नेक्षन्ते भास्करेः पुरीम् ॥ किं स्नात्वा बहुतीर्थेषु किं तप्त्वा दुष्करं तपः । यदि मत्स्योदरीं स्नाताः कुतो गर्भभयं ततः ॥ यत्र यत्र हि लिङ्गानि नृदेवर्षिकृतान्यपि । तत्र मत्स्योदरीं प्राप्य सुस्नातो मोक्षभाजनम् ॥ सन्ति तीर्थान्यनेकानि भूर्भूवःस्वर्गतान्यपि । न समानि परं तानि कोट्यंशेनापि निश्चितम् ॥ इत्थं तीर्थं कृतं तेन विभो ! कैलासवासिना । गणाधिपेन सुमहत् सुमहोदरकर्म्मणा ॥” इति काशीखण्डे ६९ अध्यायः ॥



Correction: