वाचस्पत्यम्
मथूरा is an alternate of मथुरा. मथु(थू)रा || स्त्री मथ—उ(ऊ)रच् । स्वनामख्यातायां नगर्य्याम । “अयोध्या मथुरा माया काशी काञ्ची अवन्तिका । पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः” काशी० ख० । तन्माहात्म्यं विष्णुपु० ६ अंशे ८ अ० । वराहपु० २७ अ० । ततः चतुरर्थ्यां वरणा० अण् । माथुर तत्पुर्य्यदूरभवे त्रि० । मथूराप्यत्र द्विरूपको० ।
शब्दकल्पद्रुमः
मथूरा || स्त्री (मथ् + बाहुलकात् ऊरः टाप् ।)
मथुरा । इति द्विरूपकोषः ॥