संस्कृत-शब्दकोशः

मदनावस्था मदनेच्छाफल

मदनी

वाचस्पत्यम्

मदनी ||‍ स्त्री माद्यत्यनया मद—ल्युट् ङीप् । १ सुरायाम् हारा० २ मृगनाभौ ३ अतिमुक्तके च राजनि० ।


शब्दकल्पद्रुमः

मदनी || स्त्री (माद्यति अनया इति । मद् + करणे ल्युट् । स्त्रियां ङीप् ।)
सुरा । इति हारावली ॥ कस्तूरी । अतिमुक्तकः । इति राजनिर्घण्टः ॥



Correction: