वाचस्पत्यम्
मदसार || पु० मदं सारयति गमयति सृ णिच्—अण् उप० स० । तूलवृक्षे राजनि० ।
शब्दकल्पद्रुमः
मदसारः || पुं, (मदं सारयति दूरीकरोति । इति मद + सृ + णिच् + अण् ।) तूलवृक्षः । इति राजनिर्घण्टः ॥