वाचस्पत्यम्
मदात्यय || पु० ६ त० । मदनिमित्ते रोगभेदे तस्य निदानादि गरु० पु० १६० अ० उक्तं दृश्यम् । भावप्र० उक्तन्तु यथा “विषस्य ये गुणा दृष्ठाः सन्निपातप्रकोपनाः । तएव मद्ये दृश्यन्ते विषे तु बलवत्तराः । तस्मादविधिपीतेन तथा मात्राधिकेन ञ्च । युक्तेन चाहितैरन्नैरकाले सेवि- तेन च । मद्येन खलु जायन्ते मदात्ययमुखा गदाः” । अविधिप्रयुक्तं मद्यं विकारान्तरमप्युत्पादयतीत्याह । “निर्भक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम् । उत्पादयेत् कष्टतमान् विकारानुत्पादयेच्चापि शरीर- भेदम्” । एकान्ततो नैरन्तर्य्येण, विकारान् मदात्यया- दीन् । शरीरस्य भेदं नाशम् । मदात्ययादीनां हेत्व- न्तरमप्याह “क्रुद्धेन भीतेन पिपासितेन शोकाभि- तप्तेन बुभुक्षितेन । व्यायामभाराध्वपरिक्षतेव वेगाव- रोधाभिहतेन वापि । अत्यम्लरूक्षावततोदरेण सा- जीर्णभुक्तेन तथाऽबलेन । उष्णाभिवप्तेन च सेव्यमानं करोति मद्यं विविधान् विकारान्” । तानेव विका- रान् विवृणोति । “पानात्ययं परमदं पानाजीर्णमथापि वा” । पानविकारान् विवृणोति । “पानविश्रममुग्रञ्च तेषां वक्ष्यामि लक्षणम् । तत्र मदात्ययस्य सामान्य- लक्षणमाह “शरीरदुःखं बलवत्प्रमोहो हृदय- व्यथा । अरुचिः प्रततं तृष्णा ज्वरः शीतोष्णलक्षणः । शिरः पार्श्वास्थिसन्धीनां वेदना विक्षते तथा । जाय तेऽतिबलात् जृम्भास्फुरणं वेपनं श्रमः । उरोविबन्धः कासश्च श्वासो हिक्काप्रजागरः । शरीरकम्पः कर्णाक्षि मुखरोगास्त्रिकग्रहः । छर्दिर्विड्भेदौत्क्लेशो वात- पित्तकफात्मकः । भ्रमः प्रलापी रूपाणामसताञ्चैव दर्शनम् । तृणभस्मलतापर्णपांशुभिश्चावपूरितम् । प्रक- र्षणं विहङ्गैश्च भ्रान्तचेताः स मन्यते । व्याकु- लानामशस्तानां स्वप्नानां दर्शनानि च । मदात्ययस्य रूपाणि सर्वाण्येतानि लक्षयेत्” । अथ मदात्ययस्य वातिकस्य निदानमाह “स्त्रीशोकभयभाराध्वकर्म- भिर्योऽतिकर्षितः । रूक्षाल्पप्रमिताशी च यः पिव- त्यतिमात्रया । रूक्षं परिणतं मद्यं निशि निद्रां निहन्ति च । करोति तस्य तच्छीघ्रं वातप्रायं मदा- त्ययम्” । तत् मद्यम् । अथ तस्य लक्षणमाह । “हिक्काश्वाससिराकम्पपार्श्वशूलप्रजागरैः । विद्याद्- बहुपलापञ्च वातप्रायं मदात्ययम्” । अथ पैत्तिकस्य निदानमाह “तीक्ष्णोष्णं मदामम्लञ्च योऽतिमात्रं निषेवते । अम्लोष्णतीक्ष्णभोजी च क्रोधनोऽग्न्यातप- प्रियः । तस्योपजायते तीव्रः पित्तप्रायो मदात्ययः” । अथ तस्य लक्षणमाह “तृष्णादाहज्वरस्वेदमोहा- तीपारविभ्रमैः । विद्याद्वरितवर्णस्य पित्तप्रायं मदा- त्ययम्” । अथ श्लैष्मिकस्य मदात्ययस्य निदानमाह “मधुरस्निग्धगुर्वाशी यः पिबत्यतिमात्रया । अव्यायाम- दिवास्वप्नशय्यासनसुखे रतः । मदात्ययं कफवायं स नरो लभते ध्रुवम्” । अथ तस्य लक्षणमाह “छर्द्य- रोचकहृल्लासतन्द्रास्तैमित्यगौरवैः । विद्याच्छीतपरी- तस्य कफप्रायं मदात्ययम्” । अथ सान्निपातिकस्य मदा- त्ययस्य निदानं लक्षणञ्चाह “त्रिदोषहेतुभिः सर्वैः सर्वै- र्लिङ्गैर्मदात्ययः” । अथ परमदलक्षणमाह “श्लेष्मोच्छ्र- योऽङ्गगुरुता विरसास्यता च विण्मूत्रभक्तिरथ तन्त्रि ररोचकश्च । लिङ्गं परस्य तु मदस्य वदन्ति तज्ज्ञा स्तृष्णा रुजा शिरसि सन्धिषु चापि भेदः” । तन्द्रि- स्तन्द्रा । पानाजीर्णमाह “आष्मानमुग्रमथ बोद्गिरणं विदाहः पाने त्वजीर्णमुपगच्छति लक्षणानि” । उद्गि- रणं वान्तिः उद्गारो वा । पीयत इति पानं मद्यम् । पानविभ्रममाह “हृद्गात्रतोदकफसंस्रवकण्ठधूम- मूर्च्छावमीज्वरशिरोरुजनप्रदेहाः । द्वेषः सुरान्नविकृ- तेषु च तेषु तेषु तं पानविभ्रममुशन्त्यखिलेषु धीराः । कण्ठधूमः निर्गम इव । प्रदेहः कफेन लिप्तास्यता । द्वेषः सुरान्नविकृतेषु सुराविकारेषु अन्नविकारेषु च द्वेषः । असाध्यानां मदात्ययादीनां लक्षणमाह । दीनोत्तरोष्ठमतिशीतममन्ददाहम् तैलप्रभास्यमतिपान- हतं त्यजेच्च । जिह्वोष्ठदन्तभसितं त्वथ वापि नीलम् पीते च यस्य नयने रुधिरप्रभे च । हिक्काज्वरो वमथु- वेपथुषार्श्वशूलाः कासभ्रमावपि च पानहत त्यजेत्तम्” ।
शब्दकल्पद्रुमः
मदात्ययः || पुं, (मदेन अत्ययो नाशोन्मुखतात्र ।)
मद्यपानादिजन्यरोगविशेषः । तत्पर्य्यायः । मदातङ्कः २ पानात्ययः ३ मदव्याधिः ४ मदः ५ । इति राजनिर्घण्टः ॥ अथ मदात्ययादीनां निदानान्याह । “विषस्य ये गुणा दृष्टाः सन्निपातप्रकोपनाः । त एव मद्ये दृश्यन्ते विषे तु बलवत्तराः ॥ तस्मादविधिपीतेन तथा मात्राधिकेन च । युक्तेन चाहितैरन्नैरकाले सेवितेन च ॥ मद्येन खलु जायन्ते मदात्ययमुखा गदाः ॥” अविधिप्रयुक्तं मद्यं विकारान्तरमप्युत्पादयती- त्याह । “निभक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम् । उत्पादयेत् कष्टतमान् विकारा- नुत्पादयेच्चापि शरीरभेदम् ॥” एकान्ततो नैरन्तर्य्येण विकारान् मदात्ययादीन् । शरीरस्य भेदं नाशम् ॥ * ॥
मदात्ययादीनां हेत्वन्तरमप्याह । “क्रुद्धेन भीतेन पिपासितेन शोकाभितप्तेन बुभुक्षितेन । व्यायामभाराध्वपरिक्षतेन वेगावरोधाभिहतेन चापि ॥ अत्यम्लरूक्षावततोदरेण साजीर्णभुक्तेन तथाबलेन । उष्णाभितप्तेन च सेव्यमानं करोति मद्यं विविधान् विकारान् ॥” तानेव विकारान् विवृणोति । “पानात्ययं परमदं पानाजीर्णमथापि वा ॥” पानविकारान् विवृणोति । “पानविभ्रममुग्रञ्च तेषां वक्ष्यामि लक्षणम् ।” तत्र मदात्ययस्य सामान्यं लक्षणमाह । “शरीरदुःखं बलवत् प्रमोहो हृदयव्यथा । अरुचिः प्रततं तृष्णा ज्वरः शीतोष्णलक्षणः ॥ शिरःपार्श्वास्थिसन्धीनां वेदना विक्षते यथा । जायतेऽतिबलात् जृम्भा स्फुरणं वेपनं श्रमः ॥ उरोविबन्धः कासश्च श्वासो हिक्वा प्रजागरः । शरीरकम्पः कर्णाक्षिमुखरोगास्त्रिकग्रहः ॥ छर्दिविड्भेदावुत्क्लेशो वातपित्तकफात्मकः । भ्रमः प्रलापो रूपाणामसताञ्चैव दर्शनम् ॥ तृणभस्मलतापर्णपांशुभिश्चावपूरितम् । प्रधर्षणं विहङ्गैश्च भ्रान्तचेताः स मन्यते ॥ व्याकुलानामशस्तानां स्वप्नानां दर्शनानि च । मदात्ययस्य रूपाणि सर्व्वाण्येतानि लक्ष- येत् ॥” अथ मदात्ययस्य वातिकस्य निदानमाह । “स्त्रीशोकभयभाराध्वकर्म्मभिर्योऽतिकर्षितः । रूक्षाल्पप्रमिताशी च यः पिबत्यतिमात्रया ॥ रूक्षं परिणतं मद्यं निशि निद्रां निहन्ति च । करोति तस्य तच्छीघ्रं वातप्रायं मदात्ययम् ॥” तत् मद्यम् ॥ * ॥
अथ तस्य लक्षणमाह । “हिक्वाश्वासशिरःकम्पपार्श्वशूलप्रजागरैः । विद्याद्वहुप्रलापस्य वातप्रायं मदात्ययम् ॥” अथ पैत्तिकस्य निदानमाह । “तीक्ष्णीष्णं मद्यमम्लञ्च योऽतिमात्रं निषेवते । अम्लोष्णतीक्ष्णभोजी च क्रोधनोऽग्न्यातपप्रियः । तस्योपजायते तीव्रः पित्तप्रायो मदात्ययः ॥” अथ तस्य लक्षणमाह । “तृष्णादाहज्वरस्वेदमोहातीसारविभ्रमैः । विद्याद्धरितवर्णस्य पित्तप्रायं मदात्ययम् ॥” अथ श्लैष्मिकस्य मद त्ययस्य निदानमाह । “मधुरस्निग्धगुर्व्वाशी यः पिबत्यतिमात्रथा । अव्यायामदिवास्वप्नशय्याशनसुखे रतः । मदात्ययं कफप्रायं स नरो लभते ध्रुवम् ॥” अथ तस्य लक्षणमाह । “छर्द्यरोचकहृल्लासतन्द्रास्तैमित्यगौरवैः । विद्याच्छीतपरीतस्य कफप्रायं मदात्ययम् ॥” अथ सान्निपातिकस्य मदातयस्य निदानं लक्षणञ्चाह । “त्रिदोषहेतुभिः सर्व्वैः सर्व्वैर्लिङ्गैर्मदात्ययः ॥” अथ परमदमाह । “श्लेष्मोच्छ्रयोऽङ्गगुरुता विरसास्यता च विण्मूत्रसक्तिरथ तन्द्रिररोचकश्च । लिङ्गं परस्य तु मदस्य वदन्ति तज्ज्ञा स्तृष्णा रुजा शिरसि सन्धिषु चापि भेदः ॥” तन्द्रिस्तन्द्रा ॥ * ॥
पानाजीर्णमाह । “आध्मानमुग्रमथवोद्गिरणं विदाहः पाने त्वजीर्णमुपगच्छति लक्षणानि ।” उद्गिरणं वान्तिः उद्गारो वा । पीयत इति पानं मद्यम् ॥ * ॥
पानविभ्रममाह । “हृद्गात्रतोदकफसंस्रवकण्ठधूम- मूर्च्छावमीज्वरशिरोरुजनप्रदेहाः । द्वेषः मुरान्नविकृतेषु च तेषु तेषु तं पानविभ्रममुषन्त्यखिलेषु धीराः ॥” कण्ठधूमः कण्ठाद्धूमनिर्गम इव । प्रदेहः कफेन लिप्तास्यता । द्वेषः सुरान्नविकृतेषु सुरावि- कारेषु अन्नविकारेषु च द्वेषः । अखिलेषु मद्यविकारेषु ॥ * ॥
असाध्यानां मदात्ययादीनां लक्षणमाह । “दीनोत्तरोष्ठमतिशीतममन्ददाहं तैलप्रभास्यमतिपानहतं त्यजेच्च । जिह्वोष्ठदन्तमसितन्त्वथवापि नीलं पीते च यस्य नयने रुधिरप्रभे च ॥ हिक्वा ज्वरो वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि च पानहतं त्यजेत्तम् ॥” अथ मदात्ययादीनां चिकित्सा । “मदोत्थानान्तु रोगाणां मद्यमेव हि भेषजम् । यथा दहनदग्धानां दहनस्वेदनं हितं । मिथ्यातिहीनमद्येन यो व्याधिरुपजायते । समेनैव निपीतेन मद्येन स हि शाम्यति ॥ बीजपूरकवृक्षाम्लकोलदाडिमसंयुतम् । यवानीहवुषाजाजीशृङ्गवेरावचूर्णितम् ॥ सस्नेहैः शक्तूभिर्युक्तमवदंशैश्चिरोत्थितम् । दद्यात् सलवणं मद्यं पैष्टिकं वातशान्तये ॥ मद्यं सौवर्च्चलव्योषयुक्तं किञ्चिज्जलान्वितम् । जीर्णमद्याय दातव्यं वातपानात्ययापहम् ॥ चव्यं सौवर्च्चलं हिङ्गु पूरकं विश्वदीप्यकम् । चूर्णं मद्येन पातव्यं पानात्ययरुजापहम् ॥ लावतित्तिरिदक्षाणां रसैश्च शिखिनामपि । पक्षिणां मृगमत्स्यानामानूपनां तथोदनैः ॥ स्निग्धोष्णलवणाम्लैश्च वेसवारैर्मुखप्रियैः । स्निग्धैर्गोधूमिकैरन्नैर्व्वातमद्यात्ययं जयेत् ॥ नारीणां यौवनोष्णानां निर्द्दयैरुपगूहनैः । श्रोण्यूरुकुचभारैश्च संरोधोष्मसुखप्रदैः ॥ शयनाच्छादनैरुष्णैरुष्णैश्चान्तर्गृहैः सुग्वैः । उत्पन्नो मारुतात् शीघ्रं प्रशाम्यति मदा- त्ययः ॥ पित्तपानात्यये योज्याः सर्व्वतश्च क्रिया हिमाः । सितामाक्षिकसंयुक्तं मद्यमर्द्धोदकं पिबेत् ॥ मद्यं खर्ज्जूरमृद्वीकापरूषकरसैर्युतम् । सदाडिमरसं शीतं शक्तुभिश्चावचूर्णितम् ॥ सशर्करं वा माध्वीकं संयुक्तमथवापरम् । दद्यात् बहूदकं काले पातुं पित्तमदात्यये ॥ शशान् कपिञ्जलानेणान् लावानसितपुच्छकान् । मधुराम्लान् प्रयुञ्जीत भोजने शालिषष्टिकान् ॥ पटोलयूषमिश्रं वा छागलं कल्पयेद्रसम् । सतीलं मुद्गमिश्रं वा दाडिमामलकान्वितम् ॥ द्राक्षामलकखर्ज्जू रपरूषकरसेन च । कल्पयेत् तर्पणान् यूषान् रसांश्च विविधात्म- कान् ॥ शीतानि चान्नपानानि शीतशय्यासनानि च । शीतवातजलस्पर्शाः शीतान्युपवनानि च ॥ क्षौमपद्मोत्पलानाञ्च मणीनां मौक्तिकस्य च । चन्दनोदकशीतानां स्पर्शाश्चन्द्रांशुशीतलाः । रूक्षतर्पणसंयुक्तं यवानीव्योषसंयुतम् । यवगोधूमकं चान्नं रूक्षयूषेण भोजयेत् ॥ कुलत्थानाञ्च शुष्काणां मूलकानां रसेन वा । प्रभूतकटुसंयुक्तं यावान्नं वा प्रदापयेत् ॥ छागमांसरसं रूक्षमम्लं वा जाङ्गलं रसम् । व्योषयूषं मनागम्लं पिबेत् कफमदात्यये ॥ स्थाल्यामथ कपाले वा भृष्टं कृत्वा तु नीरसम् । कट्वम्ललवणं मांसं खादेत् कफमदात्यये ॥ पाचकद्रव्ययुक्तेन मद्येनोल्लेखनं मतम् । मदात्यये कफोद्भूते लङ्घनञ्च यथाबलम् ॥ यदिदं कर्म्म निर्द्दिष्टं वातपित्तकफान् प्रति । सर्व्वजे सर्व्वमेवेदं प्रयोक्तव्यं चिकित्सकैः ॥” इति भावप्रकाशः ॥ गरुडपुराणोक्तमदात्ययनिदानादिकं तत्रैव १६० श्रध्याये द्रष्टव्यम् ॥ (तथाचास्य सकारण- लक्षणचिकित्सादिकं यथा, —
“हालाहलाहलसमं भजते वियोगात् सेव्यं न शिष्यमनुजैः कथितं मुनीन्द्रैः । तृष्णा वमिः श्वसनमोहनदाहतृष्णा संजायतेऽतिसरणं विकलेन्द्रियत्वम् ॥ ये नित्यसेवनाद्दुष्टा मद्यस्य मनुजा भृशम् । बिषमाहारसदृशी मुरा मोहनकारिणी ॥ यथा विषं प्राणहरं वियोगाद् योगेन तच्चाप्यमृतं वदन्ति । तथा सुरा योगयुता हिता स्या- दयोगतश्चारभतेऽतिकष्टम् ॥ क्षुधातुरे तृषाक्रान्ते सुरा वा भोजनं विना । न च क्षीणैर्विना भक्ता विनाहारातिपानकम् ॥ अत्यशनेऽप्यजीर्णेऽपि सुरा पीता रुजाकरी । यस्य प्रलपनञ्चापि न च वातमदात्ययः । दाहमूर्च्छातिसारश्च ज्वरः पित्तमदात्यये ॥ छर्द्द्यरोचकहृल्लासतन्द्रास्तैमित्यगौरवम् । शीतता च प्रतिश्यायः कफजे च मदात्यये । त्रिषु दोषेषु समता लिङ्गैर्येषामुपक्रमः । स त्रिदोषसमुद्भूतो मदमूर्च्छा भिषग्वर ! ॥ वमनञ्च प्रशस्तञ्च निद्रासंसेवनं पुनः । स्नानं हितं पयःपानं भोजने सगुडं दधि ॥ मस्तुखण्डं सखर्ज्जूरं मृद्वीका दाडिमाम्लिका । आमला च परूषञ्च लेहो हन्ति मदात्ययम् ॥ द्राक्षामलकखर्ज्जूरपरूषकरसेन वा । कल्कयेत् पयसा तत्तु पानं सर्व्वमदात्यये ॥ पथ्या क्वाथेन संयुक्तं पयःपानं मदात्यये ।” इति मदात्ययचिकित्सा ॥ अथ पूगीपलमदात्ययचिकित्सारभ्यते । “पूगीफलमदे कम्पो मोहो मूर्च्छा क्लमस्तमः । प्रस्वेदो विधुरत्वञ्च लालास्रावश्च जायते ॥ भ्रमक्लमपरीतत्वं विज्ञेयं पूगमूर्च्छिते । मानवो लक्षणैरेभिर्ज्ञेयः पूगविमूर्च्छितः ॥ तस्य शीतं जलं पीतं वस्तिवातहितं भवेत् । शर्कराभक्षणे देया मुस्ता वा शर्करान्विता ॥ कोद्रवाणां भवेन्मूर्च्छा देयं क्षीरं सुशीतलम् । धुस्तूरकमदे देयं शर्करासहितं दधि ॥ फलिनी करवीरञ्च मोहिनी मदयन्तिका । अन्येषामपि कन्दानां वमनञ्चाशु कारयेत् ॥ पाययेत् शर्करायुक्तं क्षीरं वा दधि शर्कराम् ।” इति श्रीमहर्ष्यात्रेयभाषिते हारीतोत्तरे तृतीय- स्थाने मदात्ययचिकित्सानाम सप्तदशोऽध्यायः ॥)