वाचस्पत्यम्
मदाह्व || पु० मदः मृगमद आह्वा यस्य । मृगमदे कस्तूर्य्यां त्रिका० ।
शब्दकल्पद्रुमः
मदाह्वः || पुं, (मदो मृगमद आह्वाख्या यस्य । ह्रस्वः ।) कस्तूरी । इति त्रिकाण्डशेषः ॥ (कस्तूरीशब्देऽस्य विवरणं ज्ञातव्यम् ॥)