वाचस्पत्यम्
मधुच्छदा || स्त्री मधुर्मधुरः छदोऽस्याः । मधुरशिखायाम भावप्र०
शब्दकल्पद्रुमः
मधुच्छदा || स्त्री (मधुः मधुरश्छदः पर्णमस्याः । यद्वा मधु छादयति रसाधिक्येन पराभवतीति छद + णिच् । घः । धे ह्रस्वश्च ।)
मयूरशिखा । इति भावप्रकाशः ॥ (तथास्या गुणाः । “नीलकण्ठशिखा लघ्वी पित्तश्लेष्मातिसारजित् ॥” इति च भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)