वाचस्पत्यम्
मधुद्रुम || पु० मध्वर्थं मद्यार्थं द्रुमः । (मौल) वृक्षभेदे अमरः । तत्पुष्पेण हि पौष्पमधुसम्भवः ।
शब्दकल्पद्रुमः
मधुद्रुमः || पुं, (मध्वर्थं मद्यार्थं मधूत्पादको वा द्रुमः । तत् पुष्पेभ्यो मद्यसम्भवादस्य तथात्वम् ।)
वृक्षविशेषः । मौलगाछ इति भाषा ॥ तत्पर्य्यायः । मधूकः २ गुडपुष्पः ३ । इत्यमरः । २ । ४ । २७ ॥ (पर्य्यायान्तरमस्य यथा, वैद्यकरत्नमालायाम् । “मधुपुष्पो मधूकश्च गुडपुष्पो मधुद्रुमः ॥”)