वाचस्पत्यम्
मधुपुष्प || पु० मधुप्रचुरं पुष्पं यस्य १ मधुद्रुमे (मौलं) रत्नमा० २ शिरीषवृक्षे, ३ अशोकवृक्षे ४ बकुलवृक्षे च ५ दन्तीवृक्ष ६ नागदन्तीवृक्षे च स्त्री टाप् राजनि० ।
शब्दकल्पद्रुमः
मधुपुष्पः || पुं, (मधुप्रचुराणि पुष्पाण्यस्य ।)
मधु- द्रुमः । इति रत्नमाला ॥ (मधूकः । तत्पर्य्यायो यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।)
“मधूको गुडपुष्पः स्यान्मधुपुष्पो मधुस्रवः । वानप्रस्थो मधुष्ठीलो जलजेऽत्र मधूलकः ॥”)
शिरीषवृक्षः । अशोकवृक्षः । वकुलवृक्षः । इति राजनिर्घण्टः ॥