वाचस्पत्यम्
मधुप्रिय || पु० मधु मद्यं प्रियं यस्य । १ बलरामे त्रिका० मधु इव प्रियः । २ भूमिजम्ब्वां जटाधरः ।
शब्दकल्पद्रुमः
मधुप्रियः || पुं, (मधु मद्यं प्रियमस्य ।)
बलरामः । इति त्रिकाण्डशेषः ॥ भूमिजम्बुः । यथा, —
“नादेयी स्त्री नागरङ्गस्त्वक्सुगन्धो मधुप्रियः ॥” इति जटाधरः ॥ (मद्यप्रिये, त्रि ॥)