वाचस्पत्यम्
मधुमस्तक || न० “मधुतैलघृतैर्मध्ये वेष्टिताः समिताश्च याः । मधुमस्तकमुद्दिष्टम्” शब्दच० उक्ते विष्टकभेदे ।
शब्दकल्पद्रुमः
मधुमस्तकं || क्ली (मधुर्मधुररसः मस्तके उपरि- भागे यस्य ।)
पिष्टकविशेषः । यथा, —
“मधुतैलघृतैर्मध्ये वेष्टिताः समिताश्च याः । मधुमस्तकमुद्दिष्टं तस्याख्यापरिमार्जनम् ॥” इति शब्दचन्द्रिका ॥ अस्य गुणाः पिष्टशब्दे द्रष्टव्याः ॥