वाचस्पत्यम्
मधुशिग्रु || पु० मधुः मधुरः शिग्रुः । रक्तशोभाञ्जने अमरः
शब्दकल्पद्रुमः
मधुशिग्रुः || पुं, (मधुप्रधानः शिग्रुः ।)
रक्त- शोभाञ्जनवृक्षः । इत्यमरः । २ । ४ । ३१ ॥ (शजिना । इति ख्यातः । यथा, सुश्रुते । १ । ३७ । “वरुणार्त्तगलशिग्रुमधुशिग्रुतर्कारीत्यादि ।” तत्पर्य्यायो यथा, —
“सुरङ्गा स्वादुगन्धा स्यान्मधुशिग्रुः शोभाञ्जनः ॥” इति वैद्यकरत्नमालायाम् ॥ तद्गुणा यथा, सुशुते सूत्रस्थाने ४६ अध्याये । “मधुशिग्रुः सरस्तिक्तः शोफघ्नो दीपनः कटुः ।”)