वाचस्पत्यम्
मधुसख || पु० मधोर्वसन्तस्य सखा सहचरः टच्समा० । काम- देवे मधुसारथ्यादयोऽप्यत्र ।
शब्दकल्पद्रुमः
मधुसखः || पुं, (मधोर्वसन्तस्य सखा इति । “राजाहः- सखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।) कामदेवः । इति हलायुधः ॥