वाचस्पत्यम्
मधूच्छिष्ट || न० मधुग उच्छिष्टमवशिष्टम् । (मोम) सिक्थके अमरः । मधूज्झितमप्यत्र ।
शब्दकल्पद्रुमः
मधूच्छिष्टं || क्ली (मधुनः उच्छिष्टमवशिष्टम् । मध्ववशिष्टम् । मोम इति भाषा ॥ (यथा, बृहत्संहितायाम् । १६ । २५ । “शैलेयकमांसीतगरकुष्ठरससैन्धवादिवल्लीजम् । मधुररसमधूच्छिष्टानि चोरकश्चेति जीवस्य ॥”)
तत्पर्य्यायः । सिक्थकम् २ । इत्यमरः । २ । ९ । १०७ ॥ शिक्थकम् ३ शिक्थम् ४ । इति शब्दरत्नावली ॥