वाचस्पत्यम्
मधूपघ्न || पु० मधुदैत्यस्योपघ्न आश्रयः । मथुरानगरे जटा० ।
शब्दकल्पद्रुमः
मधूपघ्नं || क्ली (मधोस्तन्नाम्नो दैत्यस्य उपघ्नः आश्रयः । अभिधानात् क्लीवत्वम् ।)
मथुरा । इति हेमचन्द्रः । ४ । ४४ ॥
शब्दकल्पद्रुमः
मधूपघ्नः || पुं, (मधोस्तन्नाम्नो दैत्यस्य उपघ्नः आश्रयः ।)
मथुरा । इति जटाधरः ॥ (यथा, रघुवंशे । १५ । १५ । “स च प्राप मधूपघ्नं कुम्भीनस्याश्च कुक्षिजः । वनात् करमिवादाय सत्वराशिमुपस्थितः ॥”)