वाचस्पत्यम्
मध्यमलोक || पु० कर्म० । पृथिव्याम् तस्याः पातालस्वर्ग- लोकयोर्मध्यवर्त्तित्वात् तथात्वम् । “मध्यमलोकपालः” इति रघुः मध्यलोकोऽप्यत्र ।
शब्दकल्पद्रुमः
मध्यमलोकः || पुं, (मध्यमश्चासौ लोकश्चेति कर्म्म- धारयः ।)
पृथिवी । इति त्रिकाण्डशेषः ॥ (यथा, रघुः । २ । १६ । “तां देवता पित्रतिथिक्रियार्था- मन्वक् ययौ मध्यमलोकपालः ॥” “मध्यमलोकपालः भूपालः ।” इति तट्टीकायां मल्लिनाथः ॥)