वाचस्पत्यम्
मध्वालु(क) || पु० मधुर्मधुर आलुः । (मौ आलु) मूलभेदे । स्वार्थे क । तत्रैव ।
शब्दकल्पद्रुमः
मध्वालु || क्ली (मधु मधुरं आलु । मधुवन्मिष्टत्वा- त्तथात्वम् ।)
मूलविशेषः । मौ आलु इति भाषा ॥ अस्य गुणाः । रक्तपित्तनाशित्वम् । गुरुत्वम् । स्वादुत्वम् । शीतत्वम् । स्तन्यशुक्र- कारित्वञ्च । इति राजवल्लभः ॥