संस्कृत-शब्दकोशः

मनसा मनसिज

मनसादेवी

वाचस्पत्यम्

मनसादेवी ||‍ स्त्री मनसा दीव्यति दिवः करणस्य कर्मत्वात् कर्मोपदत्वेन अण् ङीप् अलुक्स० । मनसाशब्दार्थे जटा० ।


शब्दकल्पद्रुमः

मनसादेवी || स्त्री (मनसा चासौ देवी चेति । यद्वा, मनसा दीव्यतीति । दिव् + अच् । ङीप् । “मनसः संज्ञायाम् ।” ६ । ३ । ४ । इति विभक्त्यलुक् च ।)
मनसा । इति जटा- धरः ॥ (यथा, ब्रह्मवैवर्त्ते प्रकृतिखण्डे । ४६ । ११८ । “सम्पूज्य मनसादेवीं प्रययुः स्वालयञ्च ते ॥”)
अस्या विवरणं मनसाशब्दे द्रष्टव्यम् ॥



Correction: