वाचस्पत्यम्
मनोहर || त्रि० मनो हरति स्वदर्शनाय हृ—अच् । १ रुचिरे २ कुन्दवृक्षे पु० शब्दर० । ३ जात्यां ४ स्वर्णयूथ्यां च स्त्री । ५ स्वर्णे न० राजनि० । णिनि । मनोहारिन् मनाहरे त्रि० स्त्रियां ङीप् ।
शब्दकल्पद्रुमः
मनोहरं || त्रि (हरतीति । हृ + अच् । मनसो हरमिति ।)
मनोज्ञम् । इति शब्दरत्नावली ॥ (यथा, मनौ । २ । ३३ । “स्त्रीणां सुखोद्यमक्रूरं विष्पष्टार्थं मनोहरम् ॥” यथा च मार्कण्डेये । ११२ । ३ । “स ददर्श तदा तत्र होमधेनुं मनोहराम् ॥”)
कुन्दवृक्षे, पुं । सुवर्णे, क्ली । इति राजनिर्घण्टः ॥