संस्कृत-शब्दकोशः

मन्थदण्डक मन्थनघटी

मन्थन

वाचस्पत्यम्

मन्थन ||‍ पु० मथ्यतेऽनेन करणे ल्युट् । १ मन्थानदण्डे शब्दर० । भावे ल्युट् । २ विलोडनादौ न० ।


शब्दकल्पद्रुमः

मन्थनं || क्ली (मन्थ + ल्युट् ।)
विलोडनम् । कुन्थ- नम् । इति मन्थधातोर्भावे अनट्प्रत्ययेन निष्पन्नम् ॥ (यथा, महाभारते । १ । १८ । ३० । “चिरारब्धमिदञ्चापि सागरस्यापि मन्थ- नम् ॥”)


शब्दकल्पद्रुमः

मन्थनः || पुं, (मथ्नात्यनेनेति । मन्थ + करणे ल्युट् । यद्वा, मथ्नातीति । मन्थ + ल्युः ।)
मन्थानदण्डः । इति शब्दरत्नावली ॥ (यथा, हरिवंशे । ८२ । ३६ । “गोभिश्च समकीर्णासु व्रजनिर्य्याणभूमिषु । मन्थनावर्त्तपूर्णेषु गर्गरेषु नदत्सु च ॥”)



Correction: