संस्कृत-शब्दकोशः

मन्दट मन्दन

मन्दता

वाचस्पत्यम्

मन्दता ||‍ स्त्री मन्दस्य भावः तल् । १ आलस्ये २ जाड्ये च “उच्चैरस्यति मन्दतामरसतामिति” चन्द्रालोकः ।


शब्दकल्पद्रुमः

मन्दता || स्त्री (मन्दस्य भावः । मन्द + भावार्थे तल् । स्त्रियां टाप् ।)
आलस्यम् । इति राज- निर्घण्टः ॥ (यथा, सुश्रुते शारीरस्थाने । “दुर्म्मेधस्त्वं मन्दता च स्वप्ने मैथुननित्यता । निराकरिष्णुता चैव विज्ञेयाः पाशवा गुणाः ॥”)
मन्दत्वम् । (यथा, चन्द्रालोके । १ । १ । “उच्चैरस्यति मन्दतामरसतामिति ॥” क्षीणता । यथा, साहित्यदर्पणे । ३ । ६८ । “मध्यस्य प्रथिमानमेति जघनं वक्षोजयो- र्म्मन्दतां दूरं यात्युदरञ्च रोमलतिका नेत्रार्ज्जवं धावति ॥”)



Correction: