संस्कृत-शब्दकोशः

मन्दिकुकुर मन्दिरपशु

मन्दिर

वाचस्पत्यम्

मन्दिर ||‍ न० मन्द्यतेऽत्र मदि—किरच् । १ गृहे २ पुरे च अमरः तस्य द्विलिङ्गत्वमित्येके । ३ समुद्रे मेदि० ४ जानुपश्चाद्भागे च पु० हेमच० ।


शब्दकल्पद्रुमः

मन्दिरं || क्ली (मन्द्यते सुप्यतेऽत्र मन्द्यते स्तूयते इति वा । मदि ङ स्वपने स्तुतौ + “इषि मदिमुदीति ।” उणा० १ । १५२ । इति किरच् ।)
गृहम् । इत्यमरः । २ । २ । ५ ॥ “मन्द्यते सुप्यतेऽत्र मन्दिरम् । मदि ङ स्वपने जाड्ये मदे मोदे स्तुतौ गतौ नाम्नीति इरः । नगरं मन्दिरं पुरमिति पुंनपुंसकयोररुणेन पठ्यते । स्त्रियां मन्दिरा च प्रयोगश्च मन्दिरायास्त्वरावानिति मधुमुकुटादयः ।” इति तट्टीकायां भरतः ॥ * ॥
अथ भगवन्मन्दिरनिर्म्माणमाहात्म्यम् । “यः कारयेन्मन्दिरं केशवस्य पुण्याँल्लोकान् स जयेच्छाश्वतान् वै । दत्त्वावासान् पुष्पफलाभिपन्नान् भोगान् भुङ्क्ते कामतः श्लाघनीयान् ॥ आसप्तमं पितृकुलं तथा मातृकुलं नरः । तारयेदात्मना सार्द्धं विष्णोर्म्मन्दिरकारकः ॥ इमाश्च पितरो दैत्यगाथा गायन्ति योगिनः । पुरतो यदुसिंहस्य ह्यनघस्य तपस्विनः ॥ अपि नः स्वकुले कश्चिद्विष्णुभक्तो भविष्यति । हरिमन्दिरकर्त्ता यो भविष्यति शुचिव्रतः ॥” इति वामने शेषाध्यायः ॥ * ॥
अपि च । अग्निपुराणे । “ये ध्यायन्ति सदा बुद्ध्या करिष्यामो हरे- र्गृहम् । तेषां विलीयते पापं पूर्ब्बजन्मशतोद्भवम् ॥” किञ्च । “समतीतं भविष्यञ्च कुलानामयुतं नरः । विष्णुलोकं नयत्याशु कारयेद्वा हरेर्गृहम् ॥” किञ्च । “लक्षेणाथ सहस्रेण शतेनार्द्धेन वा हरेः । तुल्यं फलं समाख्यातमिहेश्वरदरिद्रयोः ॥” विष्णुधर्म्मोत्तरे तृतीयकाण्डे । “कृत्वा वासगृहं तस्य देवस्य परमेष्ठिनः । राजसूयाश्वमेधानां फलेन सह युज्यते ॥ प्रासादे मृण्मये पुण्यं मयैतत् कथितं द्विजाः । तस्माद्दारुमये पुण्यं कृते शतगुणं भवेत् ॥ ततो दशगुणं पुण्यं तथा शैलमये भवेत् । ततो दशगुणं लौहे ताम्रे शतगुणं ततः ॥ सहस्रगुणितं रौप्ये तस्मात् फलमपाश्नुते । ततः शतसहस्रं वै सौवर्णे द्बिजसत्तमाः ॥ अनन्तं फलमाप्नोति रत्नचित्रे मनोहरे ॥” स्कान्दे । “आरम्भे कृष्णधिष्ण्यस्य सप्तजन्मनि यत् कृतम् । पापं विलयमाप्नोति नरकादुद्धरेत् पितॄन् ॥ प्रासादपादे कृष्णस्य यावत्तिष्ठन्ति रेणुकाः । तावद्वर्षसहस्राणि वसते विष्णुसद्मनि ॥ प्रासादे कृष्णदेवस्य चित्रकर्म्म करोति यः । वसते विष्णुलोके तु यावत्तिष्ठन्ति सागराः ॥” नारसिंहे । “यः कुर्य्याच्छोभनं वेश्म नरसिंहस्य भक्तिमान् । सर्व्वपापविनिर्म्मुक्तो विष्णुलोकमवाप्नयात् ॥” हयशीर्षे । “देवागारं करोमीति मनसा यस्तु चिन्तयेत् । तस्य कायगतं पापं तदह्रा विप्र ! नश्यति । कृते तु किं पुनस्तस्य प्रासादे विधिनैव तु ॥ अष्टेष्टकासमायुक्तं यः कुर्य्याद्वैष्णवं गृहम् । न तस्य फलसम्पत्तिर्व्वर्क्तुंशक्येत केनचित् ॥ अनेनैवानुमेयन्तु फलं प्रासादविस्तरात् । मरणञ्च व्रजेन्मर्त्यो यः कृत्वा प्रथमेष्टकाम् ॥ स समाप्तस्य यज्ञस्य फलं प्राप्नोत्यसं शयम् ॥” विष्णुरहस्ये । “बाल्ये च क्रीडमाना ये पांशुभिर्भवनं हरेः । वासुदेवस्य कुर्व्वन्ति तेऽपि तल्लोकगामिनः ॥” आदिपुराणे । “लेपनाच्छदनञ्चैव यः करोति पुनर्नरः । देवस्यायतनं कृत्वा न भवेत् कीटजं भयम् ॥” अथ मन्दिरनिर्म्माणकालः । मात्स्ये । “चैत्रे व्याधिमवाप्नोति यो गृहं कारयेन्नरः । वैशाखे धनरत्नानि ज्यैष्ठे मृत्यं तथैव च ॥ आषाढे भृत्यरत्नानि पशुवर्णमवाप्नुयात् । श्रावणे मित्रलाभन्तु हानिं भाद्रपदे तथा ॥ पत्नीनाशञ्चाश्वयुगे कार्त्तिके धनधान्यकम् । मार्गशीर्षे तथा भक्तं पौषे तस्करजं भयम् । लाभन्तु बहुशो विद्यादग्निं माघे विनिर्द्दिशेत् ॥ काञ्चनं फाल्गुने पुत्त्रानिति कालबलं स्मृतम् । अश्विनी रोहिणी मूलमुत्तरा-त्रयमैन्दवम् ॥ स्वाती हस्तानुराधा च गृहारम्भे प्रशस्यते । आदित्यभौमवर्ज्जञ्च सर्व्वे वाराः शुभावहाः ॥ वज्रव्याघातशूलानि व्यतीपातातिगण्डके । विष्कम्भगण्डपरिघान् वर्ज्य योगेषु कारयेत् ॥ श्वेतमैत्रे च माहेन्द्रे गान्धर्व्वाभिजिद्रौहिणे । तथा वैराजसावित्रे मुहूर्त्ते गृहमारभेत् ॥ चन्द्रादित्यबलं लब्ध्वा लग्नं शुभनिरीक्षितम् । स्तम्भोच्छ्रादि प्रकर्त्तव्यमन्यत्र परिवर्ज्जयेत् ॥” हयशीर्षे । “वास्तुकर्म्म न चारभ्यं वर्षाकाले विजानता । कृष्णपक्षे त्रिभागान्ते शुक्लपादौ द्वितीयके ॥ चतुर्थी नवमी वर्ज्ज्या तिथिश्चापि चतुर्द्दशी । भौमस्य तु दिनं वर्ज्ज्यं करणं विष्टिसंज्ञितम् ॥ क्षित्यन्तरीक्षदिव्योत्थैरुत्पातैर्भयपीडितम् । उपस्पृष्टं ग्रहैर्भञ्च व्यतिपातहतं तथा ॥ चन्द्रतारानुकूले च कार्य्यं कर्म्म विजानता । ध्रुवाणि चात्र शस्तानि नैरृतं शक्रदैवतम् ॥ पुष्यं पौष्णञ्च सावित्रं वायव्यं वैष्णवं तथा । स्थिरांशे च स्थिरे लग्ने कर्त्तुश्चोपचयात्मके ॥ केन्द्रे सौम्यग्रहो यस्य त्रिकोणे तु सुरोत्तम ! । पापश्चोपचयस्थाने तदा कार्य्यं समारभेदिति ॥” अथ प्रासादस्थानम् । हयशीर्षे । “पूर्ब्बं देवकुलं पीड्य प्रासादं स्वल्पकन्तथा । समं वाप्यधिकं वापि न कर्त्तव्यं विजानता ॥ उभयोर्द्विगुणां सीमां त्यक्त्वा चोच्छ्रायसंमि- ताम् । प्रासादं कारयेदन्यं नोभयं पीडयेद्बुधः ॥” * ॥
अथ स्थानशोधनानि । देवीपुराणे । “देवो विष्णुस्तथा रुद्रो ब्रह्माद्याः सुरसत्तमाः । प्रतिष्ठाप्याः शुभे स्थाने अन्यथा ते भयावहाः ॥ गर्त्तादिलक्षणा धात्री गन्धस्वादेन या भवेत् । वर्णेन च सुरश्रेष्ठ ! सा मही सर्व्वकामदा ॥” मात्स्ये । “पूर्ब्बं भूमिं परीक्षेत पश्चात् वास्तुं प्रकल्पयेत् । श्वेता रक्ता तथा पीता कृष्णा चैवानुपूर्ब्बशः ॥ विप्रादेः शस्यते भूमिरतः कार्य्यं परीक्षणम् । विप्राणां मधुरास्वादा कषाया क्षत्त्रियस्य च ॥ कषाये कटुता तद्वद्वैश्यशूद्रेषु शस्यते । अरत्निमात्रे वै गर्त्ते स्वनुलिप्ते च सर्व्वतः ॥ घृतमामशरावस्थं कृत्वा वर्त्तिचतुष्टयम् । ज्वालयेद्भूपरीक्षार्थं पूर्णं तत् सर्व्वदिङ्मुखम् ॥ दीप्त्या पूर्ब्बादि गृह्णीयाद्वर्णानामनुपूर्ब्बशः । वास्तुः समूहिको नाम दीप्यते सर्व्वतस्तु यः ॥ शुभदः सर्व्ववर्णानां प्रासादेषु गृहेषु च । अरत्निमात्रकं गर्त्तं परीक्ष्यं खातपूरणे ॥ अधिके श्रियमाप्नोति न्यूने हानिं समे समम् । फालकृष्टेऽथवा देशे सर्व्वबीजानि रोपयेत् ॥ त्रिपञ्चसप्तरात्रेण यत्र रोहन्ति तान्यपि । ज्येष्ठा मध्या कनिष्ठा भूर्व्वर्ज्जनीयेतरा सदा ॥” हयशीर्षे । “सुरभीणां रतिर्यत्र सवत्सानां वृषः सह । सुन्दरीणां रतिर्यत्र पुरुषैः सह सत्तम ! ॥ राज्ञां पूर्ब्बं गृहं यस्यामग्नीनां यज्विनां तथा । काश्मीरचन्दनामोदा कर्पूरागुरुगन्धिनी ॥ कमलोत्पलगन्धा च जातीचम्पकगन्धिनी । पाटलामल्लिंकागन्धा नागकेशरगन्धिनी ॥ दधिक्षीराज्यगन्धा च मदिरासवगन्धिनी । सुगन्धिब्रीहिगन्धा च शुभद्रव्यस्वना च या ॥ सर्व्वेषां वर्णिनां भूमिः सर्व्वसाधारणा मता । दुर्गन्धा दुःस्वना या च नानावर्णा च दुर्भगा ॥ वृत्तार्द्धचन्द्रसदृशा विस्ताराद्द्विगुणायता । विवर्णा वर्णहीना च वक्रा शुचिमुखी तथा ॥ द्विवर्णा सूर्पसदृशी गोमुखी च त्रिकोणिका । षडस्रा शूलसदृशी दन्तिपृष्ठोपमा च या ॥ सरीसृपसमा या च दिङ्मुखा शकटाकृतिः । एवं प्रकारा या भूमिर्व्वर्ज्ज्या यत्नेन देशिकैः ॥” किञ्च । “प्रासादस्य विशेषेण प्रोक्ता भूमिश्चतुर्व्विधा । सुपद्मा भद्रिका पूर्णा धूभ्रा रागिण्यथापरा ॥ तिलकैर्नारिकेलैश्च वर्हिःकाशैश्च शोभिता । पद्मेन्दीवरसंयुक्ता सा सुपद्मेति विश्रुता ॥ नदीसमुद्रायतनतीर्थपर्य्यन्तशोभिता । पुष्पवृक्षसमाकीर्णा क्षीरवृक्षोपशोभिता ॥ वनोद्यानलतागुल्मफुल्लस्तम्बसमावृता । यज्ञीयवृक्षसुक्षेत्रयुक्ता भद्रेति कीर्त्तिता ॥ बकुलाशोकबहुला तथा प्लक्षाम्रलोहितैः । माधवीवेष्टिता या च मुद्गनिष्पावकोद्रवैः ॥ शूकधान्यैश्च पुन्नागैर्गिरिपार्श्वगता च या । तोयञ्च स्वल्पकं यस्यां सा पूर्णा परिकीर्त्तिता ॥ विल्वार्कस्नुहिपीलूनां वनैर्य्या पारतो वृता । सशर्करा च कठिना युक्ता कण्टकिभिर्द्रुमैः ॥ गृध्रगोमायुकाकानां श्येनानां या कुलाकुलैः । धूम्रेति कीर्त्तिता सा तु तां यत्नात् परिवर्ज्जयेत् ॥ ततो भूमिं परीक्षेत पूर्ब्बोदक्प्लवनां शुभाम् । असङ्कटां तथाच्छन्नामल्पतोयां परिप्लुताम् ॥ संपूर्य्यमाणे खाते तु तथाधिकमृदं शुभाम् । कुसुम्भसदृशं वर्णं यस्यां न म्लानिमृच्छति ॥ न निर्व्वाति तथा दीपस्तीयं शीघ्रं न जीर्य्यते । श्वेतारुणा पीतकृष्णा विप्रादीनां प्रशस्यते ॥ आज्यसद्गन्धमद्यानां तुल्यगन्धा तु या भवेत् । मधुरा च कषाया च अम्ला च कटुका च या ॥ कुशैः शरैस्तथा काशैः दूर्व्वाभिर्या च संवृता । तस्यां पुण्येऽथ नक्षत्रे कुर्य्याद्भूमिपरिग्रहम् ॥” अथ भूमिपरिग्रहः । तत्रैव । “प्राकारसीमापर्य्यन्तं ततो भूतबलिं हरेत् । मांसं हरिद्राचूर्णञ्च सलाजदधिशक्तवः ॥ एभिर्भूतबलिं दत्त्वा सूत्रमष्टाक्षरेण तु । पातयित्वा ततः शङ्कूनष्टदिक्षु निवेशयेत् ॥ राक्षसाश्चापि भूताश्च येऽस्मिंस्तिष्ठन्ति भूतले । ते सर्व्वे व्यपगच्छन्तु स्थानं कुर्य्यामहं हरेः ॥ इत्यनुज्ञाप्य भूतादीन् तां भूमिं परिशोधयेत् । आदित्यादिग्रहाणाञ्च लोकपालैः समं कृती ॥ आर्य्यमिष्टविधानेन ततो वै होममाचरेत् । चतुर्होमं ततः कुर्य्यान्मूलमन्त्रेण देशिकः ॥ दद्यात् पूर्णाहुतिं पश्चात् वौषडन्तेन देशिकः । वृषभौ कपिलौ गृह्य सवर्णौ वा विचक्षणः । योजनार्थं हलञ्चैव गृह्णीयादसनोद्भवम् ॥ प्राङ्मुखं योज्य मन्त्रज्ञो वस्त्रालङ्कारभूषितः । आसनीं यष्टिमादाय द्वादशाक्षरविद्यया ॥ संमर्द्देन समीकृत्य शुभबीजानि वापयेत् । संप्राप्ते शुभकाले तु गोभिस्तत् खादयेद्बुधः । पुनस्तं कर्षयित्वा तु समीकृत्य गृहं गुरुः ॥” मात्स्ये च । “हीनाधिकां गतां वास्तोः सर्व्वतः परिवर्ज्जयेत् । नगरग्रामदेशेषु सर्व्वत्रैव विवर्ज्जयेत् ॥” * ॥
अथ दिक्साधनम् । हयशीर्षे । “बाह्यवास्तु समं कृत्वा चतुरस्रं समन्ततः । भूमिं तोयसमां कृत्वा दर्पणोदरसन्निभाम् ॥ द्वादशाङ्गुलमानेन चाष्टौ वारांस्तु भ्रामयेत् । मध्ये सुनिश्चलं शङ्कुं स्थाप्य च्छायां निरी- क्षयेत् ॥ प्रवेशे निष्क्रमे तस्यां शङ्कुच्छायां निरूपयेत् । वैषुवे विमले व्योम्नि शङ्कुना साधयेद्दिशम् ॥ शरद्वसन्तयोरेवमादित्यात् साधयेद्दिशम् । प्राचीं वा पुष्पवेधेन विचित्रामन्तरेण वा ॥ उदीचीं ध्रुववेधेन मध्ययोगेन चोन्नयेत् । चतुरस्रां शिलां गृह्य इष्टकां वा सुशोभनाम् ॥ चतुर्द्दिक्षु निवेश्याथ सूत्रचिह्रन्तु कारयेत् । एवं कृत्वा सूत्रचिह्रं ब्राह्मणांस्तत्र भोजयेत् । वैष्णवान् पायसेनाग्र्यान् द्वादशैव समाहितः ॥” अथ शल्योद्धरणम् । मात्स्ये । “गृहारम्भेति कण्डूतिः स्वाम्यङ्गे यत्र जायते । शल्यन्त्वपनयेत्तत्र प्रासादे भवनेऽथवा । सशल्यं भयदं यस्मादशल्यं भयनाशनम् ॥” हयशीर्षे । “आदिशेद्वास्तुनः शल्यं गृहिणोऽङ्गविकारतः । शकुनो दृश्यते वापि यस्य वा श्रूयते ध्वनिः । कीर्त्त्यते यस्य वै नाम शल्यं तस्य विनिर्द्दिशेत् ॥” अथ वास्तुमण्डलम् । मात्स्ये । “पञ्चगव्यौषधिजलैः परीक्षित्वावसेचयेत् । एकाशीतिपदं कुर्य्याद्रेखाभिः कनकेन तु ॥ पश्चाल्लेप्येन चालिप्य सूत्रेणालोड्य सर्व्वतः । दश पूर्ब्बायता रेखा दश चैवोत्तरायताः ॥ सर्व्ववास्तुविभागेषु विज्ञेया नवका नव । एकाशीतिपदं कृत्वा वास्तुवित् सर्व्ववास्तुषु ॥ पदस्थान् पूजयेद्देवान् त्रिंशत् पञ्चदशैव च । द्बात्रिंशद्वाह्यतः पूज्याः पूज्याश्चान्ते त्रयोदश ॥ नामतस्तान् प्रवक्ष्यामि स्थानानि च निबोध मे । ईशकोणादिषु सुरान् पूजयेच्च विधानतः ॥ शिखी चैवाथ पर्ज्जन्यो जयन्तः कुलिशायुधः । सूर्य्यः सत्यो भृशश्चैव आकाशो वायुरेव च ॥ पूषा च वितथश्चैव गृहक्षतयमाबुभौ । गन्धर्व्वो भृङ्गराजश्च मृगाः पितृगणस्तथा ॥ दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः । असुरः शोषपापौ च रोगोऽहिर्मुख्य एव च ॥ भल्लाटः सोमसूर्य्यौ च अदितिश्च दितिस्तथा । वहिर्द्वात्रिंशदेते तु तदन्तश्च सुरान् शृणु ॥ ईशानादिश्चतुष्कोणे संस्थितान् पूजयेद्बुधः । आपश्चैवाथ सावित्रो जयो रुद्रस्तथैव च ॥ मध्ये नवपदो ब्रह्मा तस्याष्टौ च समीपगाः । सर्व्वानेकोत्तरान् विद्यात् पूर्ब्बादीन्नामतः शृणु ॥ अर्य्यमा सविता चैव विवखान् विबुधाधिपः । मित्रोऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात् ॥ अष्टमश्चापवत्सश्च परितो ब्रह्मणः स्मृताः । अर्य्यमा च विवस्वांश्च मित्रः पृथ्वीधरस्तथा ॥ ब्रह्मणः परितो दिक्षु त्रिपदास्ते तु सर्व्वतः । आपश्चैवापवत्सश्च पर्ज्जन्योऽग्निर्द्दितिस्तथा ॥ पदिकानाञ्च वर्गोऽयमेवं कोणेष्वशेषतः । तन्मध्ये तु वहिर्व्विंशद्द्विपदास्ते तु सर्व्वतः ॥ अर्य्यमा च विवस्वांश्च मित्रः पृथ्वीधरस्तथा । ब्रह्मणः परितो दिक्षु त्रिपदास्ते तु सर्व्वतः ॥ वंशानिदानीं वक्ष्यामि रज्जूरपि पृथक् पृथक् । वायुं यावत्तथा रोगात् पितृभ्यः शिखिनन्तथा ॥ मुख्याद्भृशं तथा शोषाद्बितथं यावदेव तु । सुग्रीवाददितिं यावत् भृङ्गात् पर्ज्ज्यन्यमेव च ॥ एते वंशाः समाख्याताः क्वचिद्रज्जव एव तु । एतेषां यस्तु सम्पातः पदमध्यं समं तथा ॥ समं चैतत् समाख्यातं त्रिशूलं कोणगञ्च यत् । स्तम्भन्यासेषु वर्ज्यानि तुलाविधिषु सर्व्वदा ॥ कीलोत्सृष्टोपधानादि वर्ज्जयेद्यत्नतो नरः । सर्व्वत्र वास्तुनिर्द्दिष्टः पितृवंशोत्तरायतः ॥ मूर्द्धन्यग्निः समाविष्टो मुखे चापः समास्थितः । पृथ्वीधरोऽर्य्यमा चैव स्तनयोस्तावधिष्ठितौ ॥ वक्षःस्थले त्वापवत्सः पूजनीयः सदा बुधैः । नेत्रयोर्द्दितिपर्ज्जन्यौ श्रोत्रे दितिजयन्तकौ ॥ सर्पेन्द्रा वंशसंस्थौ तु पूजनीयौ प्रयत्नतः । सूर्य्यः सोमादयस्तद्वद्बाह्वोः पञ्च च पञ्च च ॥ रुद्रश्च राजयक्ष्मा च वामहस्तं समाश्रितौ ॥ सावित्रः सविता तद्वद्धस्तं दक्षिणमाश्रितौ । विवस्वानथ मित्रश्च जठरे संव्यवस्थितौ । पूषा च पापयक्ष्मा च हस्तयोर्म्मणिबन्धने ॥ तथैवासुरशोषौ च वामपार्श्वं समाश्रितौ । पार्श्वे तु दक्षिणे तद्वद्वितथः सगृहक्षतः ॥ उर्व्वोऽर्य्यमाम्बुपौ ज्ञेयौ जान्वोर्गन्धर्व्वपुष्पकौ । जङ्घयोर्मृगसुग्रीवौ स्फिक्स्थौ दौवारिको मृगः ॥ जयः शक्तस्तथा मेढ्रे पादयोः पितरस्तथा । मध्ये नवपदो ब्रह्मा हृदये तु स पूज्यते ॥ चतुःषष्टिपदो वास्तु प्रासादे ब्रह्मणः स्मृतः । ब्रह्मा चतुष्पदस्तद्वत् कोणेष्वेकपदास्तथा ॥ बहिःकोणेषु चाष्टौ तु सार्द्धाश्चोभयतः स्मृताः । विंशतिर्द्विपदास्तेषां चतुःषष्टिपदे स्मृतः ॥” * ॥
हयशीर्षे । “वास्त्वङ्गं सूत्रयेत् प्राज्ञः श्वेताम्बरधरः शुचिः । श्वेतगन्धानुलिप्ताङ्गः सर्व्वालङ्कारभूषितः ॥ चतुःषष्टि तु प्रासादे एकाशीति गृहे सदा । चतुरस्रीकृते क्षेत्रे अष्टधोभयभाजिते ॥ कोणरेखां ततो दत्त्वा सुरभागांस्तु कल्पयेत् । शिवः कोणार्द्धतो ज्ञेयः पर्ज्जन्यः पदसंस्थितः ॥ द्विपदस्थो जयो ज्ञेयः सुरेशश्चैकपादिकः । भास्करस्तु पदे ज्ञेयो द्विपदः सत्य इष्यते ॥ भृशः पदस्थो विज्ञेयो व्योमश्चैव पदार्द्धगः । हुताशनः पदार्द्धश्च पूषा च पदसंस्थितः ॥ वितथो द्विपदस्थश्च पदैकश्च गृहक्षतः । वैवस्वतः पदैकस्थो गन्धर्व्वो द्विपदस्थितः ॥ भृङ्गश्चैकपदो ज्ञेयो मृगश्चार्द्धपदे स्थितः । पितरश्चार्द्धतो ज्ञेयाः पदे दौवारिकस्तथा ॥ सुग्रीवश्च पदे ज्ञेयो ह्येकस्थः पुष्पदन्तकः । यादसाम्पतिरेकस्थो ह्यसुरस्तु हि संस्थितः ॥ शोषश्चैकपदे ज्ञेयो ह्यर्द्धगः पाप इष्यते । रोगश्चार्द्धपदे ज्ञेयो नागश्चापि पदे स्थितः ॥ मुख्यश्च द्विपदे ज्ञेयो भल्लाटः पदसंस्थितः । यज्ञेश्वरः पदे ज्ञयो नागस्तु द्बिपदे स्थितः । पदस्था श्रीमहादेवी अदितिश्चार्द्धसंस्थिता । आपो ज्ञेयास्तु पदगा बली द्विपदसंस्थितः ॥ चतुष्पदस्थो विज्ञेयस्त्वर्य्यमा पूर्ब्बमध्यगः । सविता तु पदे ज्ञेयः सावित्री च पदे स्थिता ॥ ततो विवस्वान् विज्ञेयश्चतुष्टयपदे स्थितः । इन्द्रश्चन्द्रो जयश्चैव एकैके संव्यवस्थिताः ॥ मित्रश्चतुष्पदस्थश्च पश्चिमे तु व्यवस्थितः ॥ रुद्रः पदैकसंस्थो वै यक्ष्मा वैकपदे स्थितः । धराधरश्च विज्ञेयो ह्युत्तरे च चतुष्पदः । चतुर्मुखश्चतुष्कस्थो मध्ये ज्ञेयः प्रजापतिः ॥” अथ वास्तुपूजा । मात्स्ये । “अथातः संप्रवक्ष्यामि प्रासादविधिनिर्णयम् । वास्तौ परीक्षिते सम्यग्वास्तुदेहविचक्षणाः ॥ वास्तूपशमन कुर्य्यात् पूर्ब्बमेव विचक्षणः । एकाशीतिपदं लिख्य वास्तुमध्ये तु पिष्टकैः ॥ होमस्त्रिमेखले कार्य्यः कुण्डे हस्तप्रमाणके । यवैः कृष्णतिलैस्तद्वत् समिद्भिः क्षीरवृक्षजैः ॥ पालाशैः खादिरैर्व्वापि मार्गोडम्बरसम्भवैः । कुशदूर्व्वामयैर्व्वापि मधुसर्पिःसमन्वितैः ॥ कार्य्यस्तु पञ्चभिर्व्विल्वैर्व्विल्वबीजैरथापि वा । होमान्ते भक्ष्यभोज्यैश्च वास्तुदेशे बलिं हरेत् ॥ तद्बद्बिशेषनैवेद्यमिदं दद्यात् क्रमेण तु । ईशकोणे घृतान्नन्तु शिखिने विनिवेदयेत् ॥ ओदनं सफलं दद्यात् पर्ज्जन्याय घृतान्वितम् । जयन्ताय ध्वजं पीतं पैष्टं कूर्म्मञ्च संत्यजेत् ॥ इन्द्राय पञ्च रत्नानि पैष्टकं कुलिशं तथा । वितानकञ्च सूर्य्याय धूम्रं रक्तं तथैव च ॥ सत्याय घृतगोधूमं मत्स्यान् दद्याद्भृशाय च । शष्कुलीं चान्तरीक्षाय दद्याच्छक्तुञ्च वायवे ॥ पूष्णे लाजास्तु दातव्या वितथे चणकोदनम् । गृहक्षताय मध्वन्नं यमाय पिशितौदनम् ॥ गन्धौदनञ्च गन्धर्व्वे भृङ्गे मेषस्य शृङ्गकम् । मृगाय यावकं दद्यात् पितृभ्यः कृशरा मताः ॥ दौवारिके दन्तकाष्ठं पैष्टं कृष्णं बलिं तथा । सुग्रीवे पूपकं दद्यात् पुष्पदन्ताय पायसम् ॥ कुशस्तम्बेन सहितं दद्यात् पद्मञ्च वारुणे । पैष्टं हिरण्मयं दद्यादसुराय सुरा मता ॥ घृतौदनं च शोषाय गोधां वै पापयक्ष्मणे । घृतलड्डुकांश्च रोगाय नागे पुष्पं फलान्वि- तम् ॥ सर्पिर्मुख्याय दातव्यं मुद्गौदनमतः परम् । भल्लाटाय ततो दद्यात् सोमाय घृतपायसम् ॥ सर्पाय पैष्टं शालूकमदित्यै लोपिकास्तथा । दित्यै तु पूरिकां दद्यात् इत्येवं बाह्यतो बलिम् ॥ क्षीरमापाय दातव्यमापवत्साय वै दधि । सवित्रे लड्डुकान् दद्यात् समरीचान् कुशौ- दनम् । सवितुर्गुडपूपांश्च जयाय घृतचन्दनम् । विवस्वते तथा दद्यात् रक्तचन्दनपायसम् ॥ हरितालौदनं दद्यादिन्द्राय घृतसंयुतम् । घृतौदनञ्च मित्राय रुद्राय घृतपायसम् ॥ आमं पक्वं तथा मांसं देयं स्याद्राजयक्ष्मणे । पृथ्वीधराय मांसानि कुष्माण्डाय च दापयेत् ॥ सशर्करान्नं संदद्यादर्य्यम्ने सर्व्वतः क्रमात् । नमस्कारान्तयुक्तेन मन्त्रेण पुनरेव च ॥ पञ्चगव्यं यवांश्चैव तिलाक्षतहविश्चरून् । भक्ष्यं भोज्यञ्च विविधं ब्रह्मणे विनिवेदयेत् ॥ एवं सम्पूजिता देवाः शान्तिं कुर्व्वन्ति ते सदा । सुरेभ्यः काञ्चनं दद्याद्ब्रह्मणे गां पयस्विनीम् ॥ राक्षसीनां बलिर्द्देयः अपि यादृक् तथा शृणु । मांसौदनं घृतं पद्मं केशरं हविषान्वितम् । ईशानभागमाश्रित्य चरक्यै विनिवेदयेत् ॥ दध्योदनं सरुधिरमस्थिखण्डैश्च संयुतम् । पीतरक्तबलिं दद्यात् पूतना या तु राक्षसी ॥ वायव्ये पापराक्षस्यै मत्स्यमांससुरासवम् । पायसं वापि दातव्यं स्वनाम्ना सर्व्वतः क्रमात् । नमस्कारान्तयुक्तेन प्रणवाद्येन सर्व्वतः ॥” * ॥
ततः सर्व्वौषधिस्नानं यजमानस्य कारयेत् । द्विजांस्तु पूजयेद्भक्त्या ये चान्ये गृहमागताः ॥ एतद्बास्तपशमनं कृत्वा कर्म्म समारभेत् । प्रासादभवनोद्यानप्रारम्भे परिवर्त्तने ॥ परवेश्मप्रवेशेषु सर्व्वदोषापनुत्तये । इति वास्तूपशमनं कृत्वा सूत्रेण वेष्टयेत् ॥ रक्षोघ्नपवमानेन सूत्रेण भवनादिकम् । नृत्यमङ्गलवाद्येन कुर्य्याद्ब्राह्मणवाचनम् ॥ अनेन विधिना यस्तु प्रतिसंवत्सरं बुधः । गृहे वायतने कुर्य्यान्न स दुःखमवाप्नुयात् ॥ न च व्याधिभयं तस्य न च बन्धुधनक्षयः । जीवेद्वर्षशतं स्वर्गे कल्पमेकं वसेन्नरः ॥” * ॥
हयशीर्षपञ्चरात्रे । “एवं प्रगृह्य काष्ठानि रजसापूर्य्य देशिकः । एतेषामेव देवानां बलिं दद्यात्तु कामिकम् ॥ ईशानाय प्रदातव्यं पायसं मधुना सह । पर्ज्जन्याय जलं देयं पुष्पगन्धादिवासितम् ॥ जयन्ताय प्रदातव्या पताका पीतवर्णिका । सुरेशाय च रत्नानि भाष्कराय घृतं तथा ॥ धूम्रकं पीतवर्णं वा सत्ये दद्याद्वितानकम् । दद्याद्भृशे पक्षिमांसं व्योमाय त्वचमग्नये ॥ पूष्णे धानाः सलाजास्तु सुवर्णं वितथे तथा । गृहक्षताय मध्वन्नं यमाय पिशितौदनम् ॥ गन्धं गन्धर्व्वदेवाय भृङ्गे दद्यात्तु शाकुनम् । मृगे तिलयवांश्चैव पितृभ्यः कृशरं तथा ॥ दौवारिके दन्तकाष्ठं सुग्रीवे यावकं तथा । पुष्पदन्ते कुशा देया वरुणे पद्ममुत्पलम् ॥ असुरायैक्षवं देयं रसं शोषे घृतौदनम् । यवास्तु देयाः पापाय रोगाय घृतमण्डकम् ॥ नागाय नागपुष्पाणि भक्ष्यान् मुख्याय दापयेत् । चित्रौदनञ्च भल्लाटे सोमाय मधुपायसम् ॥ नागाय चापि शालूकं श्रिये सरसपायसम् । अदित्यै पूरिका देया क्षीरं चाद्भ्यो ददेद्वलिम् ॥ दधि क्षीरं चापवल्ल्यै अर्य्यम्ने लड्डुकं बलिम् । कुशोदकं सवित्रे च सावित्र्यै गुडपूर्ब्बकम् ॥ विवस्वते रक्तपुष्पं रक्तचन्दनमेव च । हरिद्रान्नं तथेन्द्राय साज्यामन्तु जयाय च ॥ घृतपूरन्तु मित्राय रुद्राय गुडपायसम् । आमपक्वानि मांसानि प्रदद्याद्राजयक्ष्मणे ॥ पृथ्वीधरायाममांसं खड्गिमांसं बलिं हरेत् । साक्षतं सलिलञ्चैव पञ्चगव्यं तथा चरुम् ॥ कुशान् गन्धं तथा पुष्पं ब्रह्मस्थाने निवेशयेत् । आममांसं पूर्ब्बभागे सर्व्वस्कन्धे तुषोदकम् ॥ सितपद्मं घृतं मांसं विदार्य्यै चाग्निकोणके । कुशं वा पूपकं मांसमर्य्यम्णयेव दक्षिणे ॥ पिण्डञ्चैव तथा रक्तं पूतन्यै नैरृते तथा । सासृङ्मांसं प्रदातव्यं जृम्भकायैव पश्चिमे ॥ अग्निखण्डेन सहितं रक्तपिण्डेन मिश्रितम् । प्रदेयं पापराक्षस्यै वायव्यां मांसमेव च ॥ उत्तरे पिलिपिच्छायै सान्द्रं रक्तं बलिं हरेत् । वाराह्यै छागमांसानि ऐशान्यां दिशि दापयेत् ॥ ततो भूतगणानान्तु राक्षसानां सुरोत्तम ! । पिशाचानां गणानान्तु बलिर्देयस्तु कामिकः ॥ एतान् वा पूजयेत् सर्व्वान् कुशपुष्पाक्षतैर्बुधः । एवं संपूजिता देवाः शान्तिपुष्टिप्रदा नृणाम् ॥ अपूजिता विहिंसन्ति कारकं स्थापकं तथा । तस्मादेतांस्तु संपूज्य गन्धपुष्पैर्मनोहरैः । प्रासादं कारयेद्विद्वान् गृहं वा सुरसत्तम ! ॥” अथ प्रासादमूलारम्भः । तत्रैव । “ब्रह्मस्थाने ततः कुर्य्याद्वासुदेवस्य पूजनम् । श्रियः संपूजनं कुर्य्यात् हृषीकेशगणस्य च ॥ पूजनन्तु ततः कुर्य्याद्वासुदेवगणस्य च । गन्धाढ्यपुष्पनैवेद्यधूपदीपैः सुरोत्तम ! ॥ ततः संपूजयेत्तस्मिन् सर्व्वलोकधरां महीम् । सुरूपां प्रमदारूपां विद्याभरणभूषिताम् ॥ ध्यात्वा समर्च्चयेद्देवीं परितुष्टां स्मिताननाम् । ततः प्रणम्य विज्ञाप्य तन्मयत्वेन चिन्तयेत् ॥ ततः स्वनाममन्त्रेण सर्व्वदेवमयं परम् । ध्यात्वा समर्च्चयेत्तत्र यत्तद्वास्तुमयं नरः ॥ ब्रह्मस्थाने ततो विद्वान् कुर्य्यादाधारमक्षतैः । तस्मिन् संस्थापयेत् कुम्भं वर्द्धन्या सह पूजि- तम् ॥ हेमं वा राजतं वापि मृण्मयं वा दृढं नवम् । सर्व्ववीजौषधीयुक्तं सुवर्णरजतान्वितम् ॥ रत्नगर्भं सुसंपूर्णं वस्त्रपूतेन वारिणा । प्रशस्तपल्लवोपेतं श्वेतचन्दनचर्च्चितम् ॥ पुष्पैः सुमालितं कृत्वा गन्धपुष्पैर्व्विधूपितम् । आहतेन च शुक्लेन वस्त्रयुग्मेन वेष्टितम् ॥ ब्रह्मस्थाने ततो मन्त्री कलसं स्थाप्य पूजयेत् । तस्मिंश्चतुर्मुखं देवं प्रजेशं मन्त्रविग्रहम् ॥ गन्धपुष्पैश्च नैवेद्यैः पूजयेत् सुमनोहरैः । ततो मण्डलबाह्ये तु प्राच्यां वा प्राङ्मुख- स्थितः ॥ आचार्य्यो गृह्य संभारान् ग्रहादींस्तर्पयेत् सुरान् । घृतैस्तैलैर्यवैर्म्मन्त्रैर्ब्रह्मादींस्तर्पयेत्ततः ॥ प्रजेशं तर्पयेद्विद्वानाहुतीनां शतेन च । इतरान् दशभिर्द्देवानाहुतिभिः प्रतर्पयेत् ॥ दद्यात् पूर्णाहुतिं पश्चात् वौषडन्तेन मन्त्रवित् । तत्र प्रणम्य विज्ञाप्य कृत्वा वै स्वस्तिवाचनम् ॥ प्रगृह्य कर्करीं सम्यङ्मण्डलन्तु प्रदक्षिणम् । सूत्रमार्गेण दिव्येन तोयधारान्तु भ्रामयेत् ॥ पूर्ब्बवत्तेन मार्गेण सूत्रबीजानि भ्रामयेत् । सुशोभनं शुभं स्थानं तथा खातस्य कारयेत् ॥ ततो गर्त्तं खनेन्मध्ये हस्तमात्रप्रमाणकम् । चतुरङ्गुलमात्रं तदधः खन्यात् सुसम्मितम् ॥ गोमयेनोपलिप्याथ चन्दनेन च भूषयेत् । मध्ये दत्त्वा तु पुष्पाणि शुक्लान्यक्षतमेव च ॥ आचार्य्यः प्राङ्मुखो भूत्वा ध्यायेद्देवं चतु- र्भुजम् । तूर्य्यमङ्गलघोषेण ब्रह्मघोषरवेण च ॥ अर्घ्यं दद्यात् सुरश्रेष्ठ ! कुम्भतोयेन मन्त्रवित् । प्रगृह्य कर्क्करीं तावच्छ्वभ्रं प्रपूरयेज्जलैः ॥ सर्व्वरत्नसमाकीर्णैर्व्विमलैः सुसुगन्धिभिः । तस्मिन् शुक्लानि पुष्पाणि प्रक्षिपेदोमिति स्मरन् ॥ तदावर्त्तं परीक्षेत वेदाद्येनाक्षतं क्षिपेत् । शुभं स्याद्दक्षिणावर्त्तेऽशुभं वामे भवेत्ततः ॥ बीजैः शालियवादीनां तं गर्त्तं पूरयेद्बुधः । क्षत्त्रजाभिः पवित्राभिर्मृद्भिर्गर्त्तं प्रपूरयेत् ॥ एवं पुष्पाद्यविधिना चार्घ्यदानं सुरोत्तम ! । सुवर्णं गां वस्त्रयुगमाचार्य्याय निवेदयेत् ॥ कालज्ञस्थपती पूज्यौ वैष्णवान् शक्तितोऽर्च्चयेत् । ब्राह्मणान् भोजयित्वा च गेयनृत्यादि कारयेत् ॥ ततस्तं खातयेद्यत्नाज्जलान्तं याषदेव तु । पुरुषाधः स्थितं शल्यं न गृहे दोषदं भवेत् ॥ प्रासादे दोषदं शल्यं भवेद्यावज्जलान्तिकम् । तस्मात् प्रासादिकी भूमिः शोध्या यावज्जला- न्तिकम् ॥ शिवान्तं कर्क्करान्तं वा यावद्वा भूः कुमारिका । आकोट्यतां समीकृत्य ततो योगं समाचरेत् ॥” किञ्च । “पूरयेत् खातकं यत्नात् पादं पादं यथाक्रम् । आष्टाङ्गुलं मृत्तिकया स्वस्तिकं चेष्टिकादिभिः ॥ सिक्त्वा सिक्त्वा तु तोयेन कलसैः काञ्चनादिभिः । आकोटनं ततः कुर्य्यात् मुद्गरैर्ब्रह्मवृक्षजैः ॥ पादोनं पूरयेत् खातं सुषमं चैव कारयेत् । देशिकः पञ्चगव्येन तां भूमिं प्रोक्षयेद्बुधः ॥ सुवर्णब्रीहिगर्भेण चूतपल्लवशोभिना । तीर्थतोयसुपूर्णेन स्वर्णताम्रमयेण वा ॥ सेचयेदभिजप्तेन वारिणा कलसेन तु । ततः शुद्वा भवेद्भूमिर्दोषयुक्तापि या भवेत् ॥” अथ शिलालक्षणं मात्स्ये । “आदावेवं समासेन शिलालक्षणमुत्तमम् । शिलान्यासविधानञ्च प्रोच्यते तदनन्तरम् । शिला वाथेष्टका वापि चतस्रो लक्षणान्विताः । प्रासादादौ विधानेन न्यस्तव्याः सुमनोहराः ॥ चतुरस्राः समाः कृत्वा समन्तादथ वेष्टकाः । शिलारूपाः स्मृता विद्या नन्दाद्याश्चेष्टका- त्मिकाः ॥ संपूर्णाः सुतलाः स्निग्धाः सुषमा लक्षणा- न्विताः । कुशदूर्व्वाङ्किता धन्याः सध्वजच्छत्रचामराः ॥ साङ्कुशास्तोरणोपेताः कूर्म्ममत्स्यफलान्विताः । दर्पणा हस्तिवज्राङ्काः प्रशस्तद्रव्यलाञ्छिताः ॥ शस्तपक्षिमृगाङ्काश्च वृषाङ्काः सर्व्वदा हिताः । स्वस्तिका वेदिका शुक्ला नन्द्यावर्त्तकलाञ्छिताः ॥ पद्मादिलक्षणोपेताः शिलाः सर्व्वार्थसिद्धिदाः । तथा गोवाजिपादाङ्काः शिला धन्याः सुखा- वहाः ॥ क्रव्यादमृगपादाङ्का न शस्ताः पक्षिणस्तथा । दिङ्मूढा दिग्विहीनाश्च दीर्घह्रस्वाः क्षता- न्विताः ॥ विवर्णाः स्फुटिता भग्नाः संत्याज्या लक्षणच्युताः । प्रशस्तपाणिरूपाङ्काः प्रशस्तद्रव्यलाञ्छिताः ॥ यथोक्तलक्षणोपेताः शिला नित्यहितावहाः ॥” अथ इष्टकालक्षणम् । तत्रैव । “इष्टकानां समासेन लक्षणं शृणु सांप्रतम् । एकवर्णाः सुपक्वाश्च सुप्रमाणा मनोरमाः ॥ नन्दाद्याश्चेष्टकाः कार्य्याश्चतुरस्राः सुसंमिताः । अस्थ्यङ्गारान्विता नेष्टाः कृष्णवर्णाः सशर्कराः ॥ मन्दपक्वा विपक्वाश्च वहुदिन्याश्च वर्ज्जिताः । भग्नाश्च विषमा हीना वर्ज्जनीयाः प्रयत्नतः ॥” हयशीर्षपञ्चरात्रे । “इष्टकानां प्रमाणञ्च लक्षणं सांप्रतं शृणु । सुतला लक्षणोपेता द्वादश्यङ्गुलसम्मिताः ॥ सुविस्तारविभागेन नैपुण्येन च सम्मिताः । सुपक्वाः सुप्रमाणास्ता एकवर्णा मनोहराः । विमला इष्टकाः कार्य्याश्चतुरस्राः सुसम्मिताः । छिन्नकर्णाश्चाप्रशस्ताः पाणिपादविवर्ज्जिताः ॥ सशर्कराः कृष्णवर्णा अस्थ्यङ्गारचिताश्च याः । विवर्णा मन्दगन्धाश्च याः पीनाः पिण्डिकाश्च याः ॥ हीनाश्च विषमा भग्ना जर्ज्जराश्च विवर्ज्जिताः ॥” अथ शिलादिन्यासव्यवस्था । मात्स्ये । “शिलान्यासस्तु कर्त्तव्यः प्रासादे तु शिलामये । इष्टकानान्तु विन्यासः प्रासादे चेष्टकामये ॥ शैलजे शैलजः पीठ ऐष्टिके ऐष्टिकः स्मृतः । शिलान्यासादिको भद्रे मूलपादो विधीयते ॥” हयशीर्षपञ्चरात्रे । “कर्त्तव्यश्चेष्टकान्यासः प्रासादे चेष्टकामये । शैले शिलानां विन्यासः कार्करे कर्करा न्यसेत् ॥ कृत्वा शिलादिन्यासे च प्राक्शिलाभ्यधिवा- सनम् । इष्टकानां प्रतिष्ठाञ्च गर्भाधानञ्च कारयेत् ॥ गुरवे दक्षिणां दत्त्वा पीठबन्धञ्च साधयेत् । स्वयं श्रीहयशीर्षेण प्रोक्तस्तत्तद्विधिः स्फुटम् ॥” अथ पीठबन्धनम् । हयशीर्षे । “पीठबन्धं ततः कुर्य्यान्महाप्रासादमानतः । पीठोत्तमं चोच्छ्रयेण प्रासादस्योर्द्ध्वमानतः ॥ यादहीनं मध्यमं स्यात् कन्यसं चार्द्धमानतः । उत्तमं वासुदेवस्य कुर्य्यात् पीठं विचक्षणः ॥ अथ प्रासादलक्षणानि । मातृस्ये । एवं वास्तुबलिं कृत्वा भजेत् षोडशभागिकम् । तस्य मध्ये चतुर्भिस्तु भागैर्गर्भञ्च कारयेत् ॥ भागद्वादशकं तत्र भित्त्यर्थं परिकल्पयेत् । चतुर्भागेन भित्तीनामुच्छ्रायः स्यात् प्रमा- णतः ॥ द्विगुणः शिखरोच्छ्रायो भित्त्युच्छ्रायात् प्रमा- णतः । शिखरार्द्धस्य चार्द्धेन विधेया तु प्रदक्षिणा ॥ चतुर्दिक्षु तदा ज्ञेयो निर्गमस्तु तथा बुधैः । गर्भसूत्रद्वयं भागो विस्तारो मण्डपस्य तु ॥ आयतः स्यात्त्रिभिर्भागैर्भद्रयुक्तः सुशोभनः । पञ्चभागेन संभज्य गर्भमानं विचक्षणः ॥ भागमेकं गृहीत्वा तु प्राग्ग्रीवं कल्पयेद्बुधः । गर्भसूत्रसमो भागादग्रतो मुखमण्डपः । एतत् सामान्यमुद्दिष्टं प्रासादस्येह लक्षणम् ॥ किञ्च । मेरुमन्दरकैलासकुम्भसिंहमृगास्तथा । विमानच्छन्दकस्तद्वच्छ्रीवृक्षोऽथ मृगाधिपः ॥ बलभिच्छन्दकस्तद्बद्बर्त्तुलः सर्व्वभद्रकः । गजश्च नन्दनश्चैव नन्दिवर्द्धन एव च ॥ हंसो वृषः सुपर्णश्च पद्मकोऽथ समुद्गकः । प्रासादा नामतः प्रोक्ता विभागं शृणुत द्विजाः ॥ शतशृङ्गश्चतुर्द्वारो भूम


शब्दकल्पद्रुमः

मन्दिरं || क्ली पुं, (मन्दन्ते मोदन्ते लोका यत्र । मदि + “इषिमदिमुदीति ।” उणा० १ । ५२ । इति किरच् ।)
नगरम् । इति मेदिनी । रे, १९७ ॥ पुंलिङ्गोऽप्ययं शब्दः । यथा । नगरं मन्दिरं पुरमिति पुंनपुंसकयोररुणेन पठ्यते । इत्य- मरटीकायां भरतः ॥ (अश्वजानुपश्चिमभागः । यथा, अश्ववैद्यके । २ । २१ । “अधरे च ततो जानु निर्द्दिष्टं शास्त्रकोविदैः । मन्दिरं पश्चिमो भागः कलाची जानुनोऽग्रिमः ॥”)


शब्दकल्पद्रुमः

मन्दिरः || पुं, (मदि + किरच् ।)
समुद्रः । इति मेदिनी । रे, १९७ ॥ जानुपश्चाद्भागः । इति हेमचन्द्रः । ३ । २७८ ॥



Correction: