वाचस्पत्यम्
मन्मथालय || पु० ६ त० । १ आम्रवृक्षे राजनि० २ स्त्रीचिह्नभेदे च ।
शब्दकल्पद्रुमः
मन्मथालयः || पुं, (मन्मथस्य आलय इव । काम- वर्द्धकत्वादेवास्य तथात्वम् ।) आम्रः । इति राजनिर्घण्टः ॥