शब्दकल्पद्रुमः
मयूरकं || क्ली (मयूरः मयूरग्रीवेव प्रतिकृतिरिति । मयूर + “इवे प्रतिकृतौ ।” ५ । ३ । ९६ । इति कन् । अस्य मयूरकण्ठकान्तितुल्यद्युतित्वा- त्तथात्वम् ।)
अञ्जनविशेषः । तुतिया इति भाषा । तत्पर्य्यायः । तुत्थाञ्जनम् २ शिखिग्रीवम् ३ वितुन्नकम् ४ । इत्यमरः । २ । ९ । १०१ ॥ (यथा, भावप्रकाशे । १ । “तुल्यं वितुन्नकं चापि शिखिग्रीवं मयूरकम् ॥”)
शब्दकल्पद्रुमः
मयूरकः || पुं, (मयूर + इवार्थे कन् ।)
अपा- मार्गः । इत्यमरः । २ । ९ । १०१ ॥ (यथा, सुश्रुते सूत्रस्थाने । ३६ । १६ । “मयूरको राजवृक्षो निम्बः कोषातकी तिलाः ॥”)
तुत्थकम् । (स्वार्थे कन् ।)
मयूरः । इति विश्वः ॥ मयूरशिखा । इति जटाधरः ॥