संस्कृत-शब्दकोशः

मयूरविदला मयूरिका

मयूरशिखा

वाचस्पत्यम्

मयूरशिखा ||‍ स्त्री मयूरस्येव शिखाऽस्याः । स्वनामख्याते क्षुपभेदे मयूरचूडादयोऽप्यत्र । “नीलकण्ठशिखा लघ्वी पित्तश्लेष्मातिसारजित्” भावप्र० ।


शब्दकल्पद्रुमः

मयूरशिखा || स्त्री (मयूरस्य शिखेव शिखा अग्रं यस्याः ।)
स्वनामख्यातक्षुपविशेषः । तत्पर्य्यायः । बर्हिचूडा २ शिखिनी ३ शिखालुः ४ सुशिखा ५ शिखा ६ शिखाबला ७ केकिशिखा ८ । अस्या गुणाः । रसे स्वादुत्वम् । मूत्रकृच्छ्र- बालग्रहादिदोषनाशित्वम् । वश्यकर्म्मणि शस्त- त्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “मयूराह्वा शिखा प्रोक्ता सहस्राङ्घ्रिर्मरुच्छदा । नीलकण्ठशिखा लघ्वी पित्तश्लेष्मातिसारजित् ॥” इति भावप्रकाशः ॥



Correction: