संस्कृत-शब्दकोशः

मरक मरकतपत्त्री

मरकत

वाचस्पत्यम्

मरकत ||‍ न० मरकं मारिभयं तरत्यनेन तॄ—ड । हरिद्वर्णे- मणिभेदे (पान्ना) अमरः । तल्लक्षणादि परिशिष्टे दृश्यम्


शब्दकल्पद्रुमः

मरकतं || क्ली (मरकं मारिभयं तरन्त्यनेन । तन् + डः । यद्वा, मरकं मरणं तनोतीति । लोभान्मरणमनादृत्य तस्मिन् रत्ने प्रवर्त्तते इति मरकतमिति स्मरन्तीति वृद्धाः । इत्यमरटीकायां भरतः ।)
हरिद्वर्णमणिविशेषः । पान्ना इति भाषा ॥ तस्य देवता बुधः । इति ज्योतिषम् ॥ तत्पर्य्यायः । गारुत्मतम् २ अश्मगर्भम् ३ हरि- न्मणिः ४ । इत्यमरः । २ । ९ । ९२ ॥ मरक्तम् ५ राज- नीलम् ६ गरुडाङ्कितम् ७ । इति शब्दरत्ना- बली ॥ रौहिणेयम् ८ सौपर्णम् ९ गरुडोद्गी- र्णम् १० बुधरत्नम् ११ अश्मगर्भजम् १२ गर- लारिः १३ वापबोलम् १४ गारुडम् १५ । कुत्रचित् पुस्तके गरुडोद्गीर्णस्थाने गरुडो- त्तीर्णं वापवोलस्थाने वाप्रबालं इति च पाठः ॥ अस्य गुणाः । विषघ्नत्वम् । नशीतलत्वम् । रसे मधुरत्वम् । आमपित्तहरत्वम् । रुच्य- त्वम् । पुष्टिदत्वम् । भूतनाशकत्वञ्च ॥ * ॥
अस्य लक्षणम् । “स्वच्छञ्च गुरु सच्छायं स्निग्धं गात्रञ्च मार्द्दव- समेतम् । अव्यङ्गं बहुरङ्गं शृङ्गारी मरकतं शुभं बिभृ- यात् ॥” तस्य कुलक्षणम् । “शर्करिलकलिलरूक्षं मलिनं लघुहीनकान्ति कल्माषम् । त्रासयुतं विकृताङ्गं मरकतममरोऽपि नोप- भुञ्जीत ॥” * ॥
तस्य परीक्षा । “यच्छैवालशिखण्डिशाद्बलहरित्काचैश्च बाध- च्छदैः खद्योतेन च बालकीरवपुषा शैरीषपुष्पेण च । छायाभिः समतां दधाति तदिदं निर्द्दिष्टमष्टा- त्मकं जात्यं यत्तपनातपेष्वपरितो गारुत्मतं रञ्जयेत् ॥” इति राजनिर्घण्टः ॥ * ॥
ग्रन्थान्तरे तस्य परीक्षादि यथा, — सूत उवाच । “दानवाधिपतेः पित्तमादाय भुजगाधिपः । द्विधा कुर्व्वन्निव व्योम सत्वरं वासुकिर्ययौ ॥ स तदा स्वशिरोरत्नप्रभादीप्ते नभोऽम्बुधौ । राजतः स महानेकः खण्डसेतुरिवाबभौ ॥ ततः पक्षनिपातेन संहरन्निव रोदसी । गरुत्मान् पन्नगेन्द्रस्य प्रहर्त्तुमुपचक्रमे ॥ सहसैव मुमोच तत् फणीन्द्रः सुरसाद्युक्ततुरस्कपादपायाम् । नलिकावनगन्धवासितायां वरमाणिक्यगिरेरुपत्यकायाम् ॥ तस्य प्रपातसमनन्तरकालमेव तद्बद्बरालयमतीत्य रमासमीपे । स्थानं क्षितेरुपपयोनिधितीरलेखं तत्प्रत्ययान्मरकताकरतां जगाम ॥ तत्रैव किञ्चित् पततस्तु पित्ता दुत्पत्य जग्राह ततो गरुत्मान् । मूर्च्छापरीतः सहसैव घोणा- रन्ध्रद्वयेन प्रमुमोच सर्व्वम् ॥ तत्राकठोरशुककण्ठशिरीषपुष्प- खद्योतपृष्ठचरशाद्बलशैवलानाम् । कह्लारशस्पकभुजङ्गभुजाञ्च पत्र- प्रान्तत्विषो मरकताः शुभदा भवन्ति ॥ तद्यत्र भोगीन्द्रभुजा विमुक्तं पपात पित्तं दितिजाधिपस्य । तस्याकरस्यातितरां स देशो दुःखोपलभ्यश्च गुणैश्च युक्तः ॥ तस्मिन्मरकतस्थाने यत्किच्चिदुपजायते । तत्सर्व्वं विषरोगाणां प्रशमाय प्रकीर्त्त्यते ॥ सर्व्वमन्त्रौषधिगणैर्यन्न शक्यं चिकित्सितुम् । महाहिदंष्ट्राप्रभवं विषन्तत्तेन शाम्यति ॥ अन्यमप्याकरे तत्र यद्दोषैरुपवर्ज्जितम् । जायते तत् पवित्राणामुत्तमं परिकीर्त्तितम् ॥ अत्यन्तहरितवर्णं कोमलमर्च्चिर्व्विभेदजटिलञ्च । काञ्चनचूर्णस्यान्तःपूर्णमिव लक्ष्यते यच्च ॥ युक्तं संस्थानगुणैः समरागं गौरवेण विहीनम् । सवितुः करसंस्पर्शाच्छुरयति सर्व्वाश्रमं दीप्त्या ॥ हित्वा च हरितभावं यस्यान्तर्व्विनिहिता भवेद्दीप्तिः । अचिरप्रभाप्रभाहतनवशाद्बलसन्निभा भाति ॥ यच्च मनसः प्रसादं विदधाति निरीक्षितमति- मात्रम् । तन्मरकतं महागुणमिति रत्नविदां मनोवृत्तिः ॥ यस्तु भास्करसंस्पर्शात् हस्तन्यस्तो महामणिः । रञ्जयेदात्मपादैस्तु महामरकतं हि तत् ॥ चतुर्धा जातिभेदस्तु महामरकते मणौ । छायाभेदेन विज्ञेया चतुर्व्वर्गस्य लक्षणैः ॥” * ॥
अथ छाया । “भवेदष्टविधच्छाया मणेर्मरकतस्य च । वर्हिपुच्छसमाभासा चासपक्षसमापरा ॥ हरिकोचनिभा चान्या तथा शैबालसन्निभा । स्वद्योतपृष्ठसंकाशा बालकीरसमा तथा ॥ नवशाद्वलसच्छाया शिरीषकुसुमोपमा । एवमष्टौ समाख्याताश्छाया मरकताश्रयाः ॥ छायाभिर्यक्तमेताभिः श्रेष्ठं मरकतं भवेत् । पद्मरागगतः स्वच्छो जलविन्दुर्यथा भवेत् । तथा मरकतच्छाया श्यामला हरितामला ॥” अथ दोषगुणाः । “दोषाः सप्त भवन्त्यस्य गुणः पञ्चविधो मतः । अस्निग्धं रूक्षमित्युक्तं व्याधिस्तस्य धृते भवेत् ॥ विस्फोटः स्यात् सपिडके तत्र शस्त्रहतिर्भवेत् । सपाषाणे भवेदिष्टनाशो मरकते धृते ॥ विच्छायं मरकतं प्राहुर्वार्य्यते न तु धार्य्यते । शर्करं कर्करायुक्तं पुत्त्रशोकप्रदं धृतम् ॥ जठरं कान्तिहीनन्तु दंष्ट्रिवह्निभयावहम् । कुल्माषवर्णं धवलं ततो मृत्युभयं भवेत् ॥ इति दोषाः समाख्याता वर्ण्यन्तेऽथ महा- गुणाः । निर्म्मलं कथितं स्वच्छं गुरु स्याद्गुरुतायुतम् ॥ स्निग्धं रूक्षविनिर्मुक्तमरजस्कमरेणुकम् । सुरागं रागबहुलं मणेः पञ्च गुणा मताः ॥ एतैर्युक्तं मरकतं सर्व्वपापभयापहम् । गजवाजिरथान्दत्त्वा विप्रेभ्यो विस्तराद्धि मे ॥ तत् फलं समवाप्नोति शुद्धे मरकते धृते । धनधान्यादिकरणे तथा सैन्यक्रियाविधौ ॥ विषरोगोपशमने कर्म्मस्वाथर्व्वणेषु च । शस्यते मुनिभिर्यस्मादयं मरकतो मणिः ॥” तथा च । “स्वच्छता गुरुता कान्तिः स्निग्धत्वं पित्तकार- णम् । हरिन्निरञ्जकञ्चैव सप्त मरकते गुणाः ॥” अथ कृत्रिमाकृत्रिमपरीक्षा । “कृत्रिमत्वं सहजत्वं दृश्यते सूरिभिः क्वचित् । घर्षयेत् प्रस्तरे वङ्गकाचस्तस्माद्विपद्यते ॥ लेखयेल्लौहभृङ्गेण चूर्णेनाथ विलेपयेत् । सहजः कान्तिमाप्नोति कृत्रिमो मलिनायते ॥ वर्णस्यातिबहुत्वात् यस्यान्तः स्वच्छकिरण- परिधानम् । सान्द्रस्निग्धविशुद्धं कोमलबर्हप्रभादिसमकान्ति ॥ चलोज्ज्वलया कान्त्या सान्द्राकारं विभासया भाति । तदपि गुणवत्संज्ञामाप्नोति हि यादृशीं पूर्ब्बम् ॥ सकलकठोरं मलिनं रूक्षं पाषाणकर्करोपेतम् । दिग्धञ्च शिलाजतुना मरकतमेवंविधं विगुणम् ॥ यत्सन्धिश्लेषितं रत्नमन्यन्मरकताद्भवेत् । श्रेयस्कामैर्न तद्धार्य्यं क्रेतव्यं वा कथञ्चन ॥ भल्लातकपुत्त्रिका च तद्वर्णसमयोगतः । मणेर्मरकतस्यैते लक्षणीया विजातयः ॥ क्षौमेण वाससा घृष्टा दीप्तिं त्यजति पुत्त्रिका । लाघवेनैव काचस्य शक्या कर्त्तुं विभावना ॥ कस्यचिदनेकरूपैर्मरकतमनुगच्छतोऽपि गुण- वर्णैः । भल्लातकस्य निर्नेतुर्वैशद्यमुपैति वर्णस्य ॥ वज्राणि मुक्ताः सन्त्यन्ये ये च केचिद्विजातयः । तेषामप्रतिबद्धानां भा भवत्यूर्द्ध्वगामिनी ॥ ऋजुत्वाच्चैव केषाञ्चित्कथञ्चिदुपजायते । तिर्य्यगालोक्यमानानां सद्यश्चैव प्रणश्यति ॥ स्नानाचमनजप्येषु रक्षामन्त्रक्रियाविधौ । ददद्भिर्गोहिरण्यानि कुर्व्वद्भिः साधनानि च ॥ दैवपित्र्यातिथेयेषु गुरुसंपूजनेषु च । वाध्यमानेषु विषमैर्दोषजातैर्विषोद्भवैः ॥ दौषैर्हीनं गुणैर्युक्तं काञ्चनप्रतियोजितम् । संग्रामे विचरद्भिश्च धार्य्यं मरकतं बुधैः ॥” अथ मूल्यम् । “तुलया पद्मरागस्य यन्मूल्यमुपजायते । लभतेऽभ्यधिकं तस्मात् गुणैर्मरकतं स्मृतम् ॥ तथा च पद्मरागाणां दोषैर्मूल्यं प्रलीयते । ततोऽस्याप्यधिका हानिर्दोषैर्मरकते भवेत् ॥ गुणपिण्डसमायुक्ते हरितश्यामभास्वरे । मूल्यं द्बादशकं प्रोक्तं जातिभेदेन सूरिभिः ॥ यवैकेन शतं पञ्चसहस्रं द्वितये यवे । त्रिभिश्चैव सहस्रे द्वे चतुर्भिश्च चतुर्गुणम् ॥” इति गारुडे मरकतपरीक्षा ७१ अध्यायः युक्तिकल्पतरुश्च ॥



Correction: