वाचस्पत्यम्
मराकाली || स्त्री मरो मरणकालिकं दुःखमिवाकति यात्य- नेन मराको वृश्चिकः स इवालति पर्य्याप्नोति दुःख- दानाय अल—अच् गौरा० ङीष् । वृश्चिकालौ (विछाति) रत्नमाला ।
शब्दकल्पद्रुमः
मराकाली || स्त्री (मरं मरणदुःखं अकति प्राप्नोत्यनेनेति । अक् + करणे घञ् । स इव अलति पर्य्याप्नोतीति । अल् + अच् । गौरा- दित्वात् ङीष् ।)
बृश्चिकाली । इति रत्नमाला । विछाटी इति भाषा ॥ (विवृतिरस्या बृश्चि- कालीशब्दे ज्ञातव्या ॥)