वाचस्पत्यम्
मरुज || पु० मरुदेशे जायते जन ड । १ नखीनामगन्धद्रव्ये शब्दच० । २ निर्जलदेशजाते त्रि० । ३ मृगकर्कोट्याम् स्त्री राजनि० ।
शब्दकल्पद्रुमः
मरुजः || पुं, (मरौ निर्ज्जलदेशे जायते इति । जन् + डः ।)
नखीनामगन्धद्रव्यम् । इति शब्द- चन्द्रिका ॥ (वंशाङ्कुरे, क्ली । तत्पर्य्यायो यथा, “करीरं मरुजं फलम् — ।” इति वैद्यकरत्नमालायाम् ॥)
मरुदेशजाते, त्रि ॥