वाचस्पत्यम्
मरुव || पु० मरुं निर्जलदेशं वाति कारणत्वेन वा क । (नाग- दाना) (मरुआ) वृक्षभेदे । स्वार्थे क । तत्र वृक्षभेदे (मयना) स्वल्पपत्रतुलस्याम् अमरः । त्तम्बीरभेदे भरतः पुष्पप्रधाने (मरुयाफुल) वृक्षभेदे रत्नमा० व्याक्रे, राहौ भयानके च जटा० ।
शब्दकल्पद्रुमः
मरुवः || पुं, (मरुं निर्ज्जलदेशं वाति प्राप्नोतीति । वा + कः ।)
वृक्षविशेषः । मरुया इति नाग- दाना इति च भाषा ॥ तत्पर्य्यायः । खरपत्रः २ गन्धपत्रः ३ फणिज्झकः ४ बहुवीर्य्यः ५ शीतलकः ६ सुराह्वः ७ समीरणः ८ जम्बीरः ९ प्रस्थकुसुमः १० मरुवकः ११ आजन्मसुरभि- पत्रः १२ मरिचः १३ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । कृमिकुष्ठविड्बन्धाध्मान- शूलमान्द्यत्वग्दोषनाशित्वञ्च । इति राज- निर्घण्टः ॥ अपि च । “मरुत्तको मरुवको मरुन्मरुरपि स्मृतः । फणी फणिज्झकश्चापि प्रस्थपुष्पः समीरणः ॥ मरुदग्निप्रदो हृद्यस्तिक्तोष्णः पित्तलो लघुः । बृश्चिकादिविषश्लेष्मवातकुष्ठकृमिप्रणुत् । कटुपाकरसो रुच्यस्तिक्तो रूक्षः सुगन्धिकः ॥” इति भावप्रकाशः ॥