वाचस्पत्यम्
मर्त्त || पु० मृ—तन् । १ मनुष्ये २ भूलोके च । तत्र भवः यत् । मर्त्त्य मनुष्ये ।
शब्दकल्पद्रुमः
मर्त्तः || पुं, (म्रियतेऽसौ इति । मृ + “हसिमृग्रि- णिति ।” उणा० ३ । ८६ । इति तन् ।)
मनुष्यः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (यथा, मार्कण्डेये । १०० । १८ । “पौर्णमास्याममावस्यां पर्व्वस्वन्येषु प्रस्तवः । ममैष संश्रुतो मर्त्तैर्भविता पापनाशनः ॥”)
माणवकः । इति संक्षिप्तसारोणादिवृत्तिः ॥ (म्रियतेऽत्रेति । भूलोकः । इत्युज्ज्वलदत्तः । ३ । ८६ ॥)