वाचस्पत्यम्
मर्द्दल || पु० भृद—घञ् मर्द्दं लाति ला—क । वाद्यभेदे (माँदल) । अमरः ।
शब्दकल्पद्रुमः
मर्द्दलः || पुं, (मर्द्दं मर्द्दनं लातीति । ला + कः ।)
वाद्यविशेषः । इत्यमरः । १ । ७ । ८ ॥ मादल इति भाषा । तत्पर्य्यायः । गुरुः २ । इति शब्द- रत्नावली ॥ (यथा, महाभारते । ८ । ४४ । १९ । “मृदङ्गानकशङ्खानां मर्द्दलानाञ्च निस्वनैः । खरोष्ट्राश्वतरैश्चैव मत्ता यास्यामहे सुखम् ॥”)