वाचस्पत्यम्
मसीना || स्त्री मस—ईनन् । अतस्याम् (तिसि) शब्दच० ।
शब्दकल्पद्रुमः
मसीना || स्त्री (मस् + “बहुलमन्यत्रापि ।” उणा ० २ । ४९ । इति । इनच् । पृषोदरादि त्वाद्दीर्घः । स्त्रियां टाप् ।)
स्वनामख्यात- शस्यम् । यथा, शब्दचन्द्रिकायाम् । “मसीना चातसी चिह्रा क्षुमोमामालिका मिता ॥”