संस्कृत-शब्दकोशः

मस्त मस्तकस्नेह

मस्तक

वाचस्पत्यम्

मस्तक is an alternate of मस्त. मस्त(क) ||‍ न० मस्मति परिमात्यनेन मस—करणे त । १ उच्चे त्रि० । २ शिरसि च स्वार्थे क । ३ उत्तमाङ्गे पुंन० ।


शब्दकल्पद्रुमः

मस्तकः || पुं, क्ली, (मस्यते परिमीयते । मस् + “इष्यशिभ्यां तकन् ।” उणा ० ३ । १४८ । इत्यत्र । “बाहुलकात् मस्यतेरपि तकन् ।” इत्युज्ज्वलदत्तोक्त्या तकन् ।)
प्रधानाङ्गम् । माथा इति भाषा ॥ (यथा, मार्कण्डेयपुराणे । १४ । ७८ । “बिम्रत् क्लेशमवाप्नोति सोऽप्येवं शिरसा शिलाम् । क्षुत्क्षामोऽहर्निशं भारपीडाव्यथित- मस्तकः ॥”)
तत्पर्य्यायः । उत्तमाङ्गम् २ शिरः ३ शीर्षम् ४ मूर्द्धा ५ । इत्यमरः । २ । ६ । ९४ ॥ मुण्डम् ६ शिरम् ७ । इति शब्दरत्नावली ॥ वराङ्गम् ८ । इति जटाधरः ॥ कम् ९ पुण्ड्रम् १० मौलिः ११ कपालम् १२ केशभूः १३ । इति राज- निर्घण्टः ॥ (मस्तम् १४ । इति द्विरूपकोषः ।)
तस्य शुभाशुभलक्षणं यथा, —
“छत्राकारैः शिरोभिस्तु नृपा निम्नशिरा धनी । चिपिटैश्च पितुर्मृत्युर्गवाढ्याः परिमण्डलैः ॥ घटमूर्द्धा पापरुचिर्धनाद्यैः परिवर्ज्जितः ॥” इति गारुडे ६६ अध्यायः ॥ मस्तके अधोमुखसहस्रदलकमलमस्ति तत् कर्णिकायां परमात्मा तिष्ठति । यथा । स्वाङ्के उत्तानौ करौ कृत्वा सोऽहमिति जीवात्मानं हृदयस्थं दीपकलिकाकारं मूलाधारस्थकुल- कुण्डलिन्या सह सुसम्नावर्त्मना मूलाधारस्वाधि- ष्ठानमणिपूरानाहतविशुद्धाज्ञाख्यषट्चक्राणि भित्त्वा शिरोऽवस्थिताधोमुखसहस्रदलकमल- कर्णिकान्तार्गतपरमात्मनि संयोज्येत्यादि तन्त्र- सारः ॥ तथा च । “सुसुम्नावर्त्मना सोऽहमिति मन्त्रेण योजयेत् । सहस्रारे शिरःस्थाने परमात्मनि देशिकः ॥” इति गौतमीयतन्त्रम् ॥



Correction: