संस्कृत-शब्दकोशः

मस्तुलुङ्गक महछ

मह

वाचस्पत्यम्

मह ||‍ पु० मह—घञर्थे क । १ उत्सवे सततानन्दजनकव्यापारे अभरः । २ तेजसि मेदि० । ३ यज्ञे पु० ४ महिषे च पुंस्त्री० हेमच० ।


वाचस्पत्यम्

मह ||‍ पूजने अद० चु० उभ० सक० सेट् । महयति—ते अम- महत्—त ।


वाचस्पत्यम्

मह ||‍ पूजायां भ्वा० पर० सक० सेट् । भहति अमहीत् मेहतुः ।


वाचस्पत्यम्

मह ||‍ वृद्धौ भ्वा० आ० अक० सेट् इदित् । भहते अमंहिष्ट ।


शब्दकल्पद्रुमः

मह || इ क त्विषि । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-अक०-सेट् ।)
इ क, मंहयति । त्विषि दीप्तौ । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

मह || इ ङ वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।)
इ, मंह्यते । ङ, मंहते । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

मह || त् क पूजे । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-सक०-सेट् ।)
महयति । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

महः || पुं, (मह्यते पूज्यतेऽस्मिन्निति । मह + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः । मह + अच् इत्युज्ज्वलदत्तः । ४ । १८८ ।)
उत्सवः । इत्यमरः । १ । ७ । १८८ ॥ (यथा, माघे । ६ । १९ । “न खलु दूरगतोऽप्यतिवर्त्तते महमसाविति बन्धुतयोदितैः ॥” महते पूज्यते इति ।)
तेजः । इति मेदिनी । हे ७ ॥ यज्ञः । इति शब्दरत्नावली ॥ (यथा, हरिवंशे । ७१ । १८ । “तस्मात् प्रावृषि राजानः सर्व्वे शक्रं मुदा युताः । महैः सुरेशमर्च्चन्ति वयमन्ये च मानवाः ॥”)
महिषः । इति हेमचन्द्रः ॥ (त्रि, महत् । यथा, ऋग्वेदे । १० । ९१ । ८ । “महे वृणते नान्यं त्वत् ॥” “महे महति ।” इति तद्भाष्ये सायनः ॥)


शब्दकल्पद्रुमः

मह || पूजे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।)
महति । इति दुर्गादासः ॥



Correction: