संस्कृत-शब्दकोशः

महर् महर्षभी

महर्लोक

वाचस्पत्यम्

महर्लोक ||‍ पु० कर्म० । भूरादिषु ऊर्ध्वस्थे सप्तलोकान्तर्गते चतुर्थे लोके


शब्दकल्पद्रुमः

महर्लोकः || पुं, (महश्चासौ लोकश्चेति । कर्म्म- धारयः ।)
भूरादिसप्तलोकान्तर्गतचतुर्थलोकः । यथा, —
“भूर्भुवः स्वर्म्महश्चैव जनश्च तप एव च । सत्यलोकश्च सप्तैते लोकास्तु परिकीर्त्तिताः ॥ चतुर्मुखदिनस्यान्ते जगदेतच्चराचरम् ॥ तदा हि दह्यते सर्व्वं त्रैलोक्यं भूर्भुवादिकम् । जनं प्रयान्ति तापार्त्ता महर्लोकनिवासिनः ॥” इति वह्निपुराणम् ॥ “चतुर्थे तु महर्लोके तिष्ठन्ते कल्पवासिनः ॥” इति देवीपुराणम् ॥



Correction: