संस्कृत-शब्दकोशः

महागद महागन्धा

महागन्ध

वाचस्पत्यम्

महागन्ध ||‍ न० महान् गन्धोऽस्य । १ हरिचन्दने २ वोले च राजनि० । ३ जलवेतसे वृक्षे पु० शब्दच० । ४ नागबलायां ५ कविकायां न्व स्त्री राजनि० । ६ चामुण्डायां स्त्री हेम०


शब्दकल्पद्रुमः

महागन्धं || क्ली (महान् गन्धोऽस्य ।)
हरि- चन्दनम् । बोलम् । इति राजनिर्घण्टः ॥ (महा- गन्धयुक्ते, त्रि । यथा, हरिवंशे । १४३ । ४४ । “तच्च कण्ठे समासज्य महागन्धं नराधिप ! । आययावन्धको यत्र दुरात्मा बलदर्पितः ॥”)


शब्दकल्पद्रुमः

महागन्धः || पुं, (महान् गन्धोऽस्य ।)
कुटजवृक्षः । इति राजनिर्घण्टः ॥ जलवेतसः । इति शब्द- चन्द्रिका ॥



Correction: