शब्दकल्पद्रुमः
महाघोषं || क्ली (महान् घोषः कोलाहलो यस्मिन् ।)
हट्टम् । इति मेदिनी । षे, ५६ ॥ बृहच्छब्दयुक्ते, त्रि ॥ यथा, महाभारते । १ । २२१ । ११ । “तेषां श्रुत्वा सभापालो भेरां सान्नाहिकीं तथा । समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम् ॥”)
शब्दकल्पद्रुमः
महाघोषः || पुं, (महांश्चासौ घोषश्चेति ।)
अति- घोषणम् । इति मेदिनी । षे, ५६ ॥