संस्कृत-शब्दकोशः

महामैत्र महाम्ल

महामोह

वाचस्पत्यम्

महामोह ||‍ पु० महान् मोहः म्नान्तिहेतुकी वस्तुतोऽनिष्टे- ष्वपि रागः । १ संसारतद्विषयकारणरूपेऽज्ञानभेदे “तमोऽ विवेको मोहः स्यादन्तःकरणविभ्रमः । महामोहस्तु विज्ञेयो ग्राम्यभोगसुखैषणा” इत्युक्ते २ मैथुनादिसुखभोगे- च्छारूपे अन्तःकरणवृत्तिभेदे च । वैषयिकसुखस्य वस्तु- तोऽनिष्टत्वात् तथात्वम् । “दशविधो महामोहः” सा० का० । शब्दादिषु पञ्चसु दिव्यादिव्यतया दशविधेषु विषयेषु रञ्जनीयेषु राग आसक्तिः” त० कौ० उक्ते ३ दशविधविषयरागे च ।


शब्दकल्पद्रुमः

महामोहः || पुं, (मोहः भ्रान्तिज्ञानम् । अतथाभूते वस्तुनि तथात्वज्ञानमित्यर्थः । महान् मोहः ।)
भोगेच्छारूपाज्ञानम् । इति केचित् ॥ संसार- मूलकारणरागरूपमोहः । (महान् मोहो यस्मादिति च ।)
महामोहजनककामराज- बीजम् । इति चण्डीप्रथममाहात्म्यटीकायां नागोजीभट्टः ॥ अपि च । “ससर्ज्जाग्रेऽन्धतामिस्रमथ तामिस्रमादिकृत् । महामोहञ्च मोहञ्च तमश्चाज्ञानवृत्तयः ॥” इति श्रीभागवते ३ स्कन्धे १२ अध्यायः ॥ अग्र इति ब्रह्मा स्वसृष्टौ प्रथममविद्यासृष्टीः ससर्ज्ज तत्र तमो नाम स्वरूपाप्रकाशः । मोहो देहाद्यहंबुद्धिः । महामोहो भोगेच्छा । तामिस्रः तत्प्रतिघाते क्रोधः । अन्धतामिस्रः तन्नाशे अहमेव मृतोऽस्मीति बुद्धिः । तदे- वोक्तं वैष्णवे । “तमोऽविवेको मोहः स्यादन्तःकरणविभ्रमः । महामोहश्च विज्ञेयो ग्राम्यभोगसुखैषणा ॥ मरणं ह्यन्धतामिस्रं तामिस्रं क्रोध उच्यते । अविद्या पञ्चपर्व्वा या प्रादुर्भूता महात्मनः ॥” इति तट्टीकायां श्रीधरस्वामी ॥



Correction: