संस्कृत-शब्दकोशः

महारजत महारण्य

महारजन

वाचस्पत्यम्

महारजन ||‍ न० रजत्यनेन ल्युट् कर्म० । १ कुसुम्भपुष्पे अमरः २ स्वर्णे च मेदि० ।


शब्दकल्पद्रुमः

महारजनं || क्ली (रज्यतेऽनेनेति । रञ्ज + करणे ल्युट् । ततः । “अनिदितामिति ।” ६ । ४ । २४ । इत्यत्र “रजकरजनरजःसूपसंख्यानं कर्त्तव्यम् ।” इति काशिकोक्त्या नलोपः । महच्च तद्रजनञ्चेति कर्म्मधारयः ।)
कुसुम्भपुष्पम् । इत्यमरः । २ । ९ । १०६ ॥ स्वर्णम् । इति मेदिनी । ने, २४४ ॥



Correction: