वाचस्पत्यम्
महार्णव || पु० कर्म० । महासमुद्रे ।
शब्दकल्पद्रुमः
महार्णवः || पुं, (महान् सुविशालः अर्णवः ।)
महासमुद्रः । यथा, —
“आघूर्णितो वा वातेन स्थितः पोते महार्णवे ॥” इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥ (महान् अर्णव इव । प्रसादादिगुणबाहुल्यात् तथात्वम् ।)
शिवः । इति महाभारते तस्य सहस्रनामस्तोत्रम् ॥ (कूर्म्मरूपिभगवन्नाराय- णस्य दक्षपदोद्भवः जनपदः । यथा, मार्क- ण्डेये । ५८ । ३२ । “सौरष्ट्रा दरदाश्चैव द्राविडाश्च महार्णवाः । एते जनपदाः पादे स्थिता वै दक्षिणेऽपरे ॥”)