संस्कृत-शब्दकोशः

महावरा महावरोह

महावराह

वाचस्पत्यम्

महावराह ||‍ पु० कर्म० । वृहद्वराहरूपधारिणि भगवदवतारभेदे ।


शब्दकल्पद्रुमः

महावराहः || पुं, (महानीश्वरोऽपि सन् वराहः । महांश्चासौ वराहश्चेति वा ।)
वराहरूपी भगवान् । यथा, —
“महावराहो गोविन्दः सुसेनः कनकाङ्गदी ॥” इति महाभारते तस्य सहस्रनामस्तोत्रम् ॥ (राजविशेषः । यथा, कथासरित्सागरे । ५२ । ९२ । “अस्ति शूरपुरं नाम यथार्थं नगरं भुवि । महावराह इत्यासीद्राजा तत्रातिदुर्म्मदः ॥”)



Correction: