वाचस्पत्यम्
महाव्याहृति || स्त्री कर्म० । वैदिके भूर्भुवःस्वरात्मके मन्त्रत्रये
शब्दकल्पद्रुमः
महाव्याहृतिः || स्त्री (महती चासौ व्याहृतिश्चेति ।)
प्रणवस्वाहायुक्तव्याहृतित्रयम् । यथा । ॐ भूः स्वाहा ॐ भुवः स्वाहा ॐ स्वः स्वाहा । इति भवदेवभट्टः ॥ (यथा, मनौ । २ । ८१ । “ओङ्कारपूर्ब्बिकास्तिस्रः महाव्याहृतयोऽव्ययाः । त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ॥”)