संस्कृत-शब्दकोशः

महाषष्ठी महासन्न

महाष्टमी

वाचस्पत्यम्

महाष्टमी ||‍ स्त्री कर्म० । “आश्विने शुक्लपक्षस्य भवेद् या तिथि रष्टमी । महाष्टमीति सा प्रोक्ता” इत्युक्तायामाश्विन- शुक्लाष्टम्याम् ।


शब्दकल्पद्रुमः

महाष्टमी || स्त्री (महत्या महादेव्या अष्टमी । महती अष्टमीति वा ।)
आश्विनशुक्लाष्टमी । यथा, —
“आश्विने शुक्लपक्षस्य भवेद् या अष्टमी तिथिः । महाष्टमीति सा प्रोक्ता देव्याः प्रीतिकरा परा ॥” इति कालिकापुराणे ५९ अध्यायः ॥ तस्यां पूजाविधिः पुत्त्रवत् उपवासनिषेषधश्च यथा, —
“अष्टम्यां रुधिरैर्मांसैर्महामांसैः सुगन्धिभिः । पूजयेद्वहुजातीयैर्बलिभिर्भोजनैः शिवाम् ॥ सिन्दूरैः पट्टवासैश्च नानाविधविलेपनैः । पुष्पैरनेकजातीयैः फलैर्बहुविधैरपि ॥ उपवासं महाष्टम्यां पुत्त्रवान्न समाचरेत् । यथा तथैव पूतात्मा व्रती देवीं प्रपूजयेत् ॥ पूजयित्वा महाष्टम्यां नवम्यां वलिभिस्तथा । विसर्जयेद्दशम्यान्तु श्रवणे सावरोत्सवैः ॥” इति तत्रैव ६० अध्यायः ॥ तत्रार्द्धरात्रपूजा । यथा, —
“कन्यासंस्थे रवावीशे शुक्लाष्टम्यां प्रपूजयेत् । सोपवासो निशार्द्धे तु महाविभवविस्तरैः ॥ पूजां समारभेद्देव्या नक्षत्रे वारुणेऽपि वा । पशुघातश्च कर्त्तव्यो गवलाजवधस्तथा ॥” इति देवीपुराणवचने वारुणपदेन पूर्ब्बाषाढो- च्यते । इति तिथ्यादितत्त्वम् ॥



Correction: